Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi
View full book text
________________
करुणरसकदम्बकम्
आत्मानं तरुशाखायामुद्बद्धुमनसोऽपरे । बबन्धुरुत्तरीयाणि, लीलादोलां यथा पुरा ॥ ६ ॥
शिरसोऽत्रोटयन् केsपि, केशान् क्षेत्रात्कुशानिव । केप्यंगानं नेपथ्यं, चिक्षिपुः स्वेदबिंदुवत् ॥ ७ ॥ हस्तन्यस्तकपोलाः केऽप्यस्थुश्चिन्तापरायणाः । प्रदत्तोत्तंभनस्तम्भजर्जराका रकुड्यवत् ॥ ८ ॥ असंवहन्तः केचिच्च, परिधानांशुकान्यपि । " विशंस्थुलाङ्गा व्यलुठन्नुन्मत्ता इव भूतले ॥ ९ ॥ विलापोऽन्त पुरे स्त्रीणां कुररीणामिवाम्बरे । हृदया कम्पजनकः, पृथक् पृथगभूदिति ॥ १० ॥ प्राणेशान् गृह्णतास्माकं प्राणानत्रैव मुञ्चता । किमधवैशसमिदं रे दैवाचरितं त्वया ? ॥। ११ ॥ प्रसीद विवरं देहि, स्फुटित्वा देवि ! काश्यपि ! | अभ्रादपि पतितानां शरणं धरणी खलु ॥ १२ ॥ अद्य चंदनगोधानामिवास्माकमुपर्यहो । विद्युद्दण्डमकाण्डेऽपि, दैव ! पातय निर्दयम् ॥ १३ ॥ प्राणाः ! शिवा वः पन्थानो, यूयं यात यथेप्सितम् । विमुञ्चतास्मच्छरीरमवक्रयकुटीमिव ॥ १४ ॥ समायाहिं महातन्द्रे, ! सर्वदुः खापनोदिनि ! । मन्दाकिनि ! त्वमुत्पत्य, जलमृत्युं प्रयच्छ वा ॥ १५ ॥
५७.
१ क्रीडादोलाम् । २ शिथिलाङ्गाः । ३ मृगीणाम् । ४ अर्धमरणम् । ५ हे पृथ्वि ! । ६ आकाशात् । ७. असमये ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326