SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Fe करुणरसकदम्बकम् [ ३० ] सगरचक्रिणोऽग्रे द्विजस्य कृत्रिमविलापः । इत्यादिभिर्दु निमित्तैर्विद्धो हृदि शरैखि । विमनाः प्राविशमहं चञ्चापुरुषवद्गृहम् ॥ ९८ ॥ मामापतन्तं सम्प्रेक्ष्य, ब्राह्मणी 'विलुल्कचा | सद्यो हा पुत्र ! हा पुत्रेत्याक्रन्दन्त्यपतद्भुवि ॥ ९९ ॥ ध्रुवं विपन्नो मे पुत्र, इति निश्चित्य चेतसा । अहमप्यपतं सद्यो, गतप्राण इवावनौ ॥ १०० ॥ मूर्छाविरामे भूयोऽपि प्रलपन् करुणस्वरम् । अपश्यं गृहमध्येऽहं, सर्पदष्टमिमं सुतम् ॥ १०१ ॥ भोजनाद्यप्यकृत्वास्थां, यावज्जाग्रदहं निशि । कुलदेवतया तावदिदमादेशि मे पुनः ॥ १०२ ॥ भोः किमेवं समुद्विग्नोऽस्यमुना पुत्रमृत्युना ! ॥ * संपादयामि ते पुत्रं, यद्यादेशं करोषि मे ॥ १०३ ॥ देव्याः प्रमाणमादेश, इत्यवोचमहं ततः । पुत्रार्थे शोकविधुरैः, किं वा न प्रतिपद्यते ॥ १०४ ॥ कुलदेवतयाथोक्तं, विपन्नो यत्र कोऽपि न । " ततोऽग्निं मङ्गलगृहात् कुतोऽप्यानय सत्वरम् ॥ १०५॥ ततस्तनयलोभेन, प्रत्यहं प्रतिमन्दिरम् । तत्पृच्छन् हस्यमानोऽहं, भ्रान्तोऽर्भक इवाभ्रमम् ॥ १०६ ॥ १ विकीर्णकेशाः । २ जीवयामि । ३ मृतः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy