________________
करुणरसकदम्बकम्
पृच्छ्यमानो जनः सर्वोऽप्याचष्टे स्म गृहे गृहे । संख्यातीतान् मृतान् वेश्म, नामृतं किञ्चिदप्यभूत् ॥ १०७ ॥ - तदप्राप्त्या च भग्नाशः, पेरासुरिव नष्टधीः । व्यजिज्ञपमहं दीनस्तत्सर्व कुलदेवताम् ॥ १०८ ॥ आदिशद्देवताप्येवं, न मङ्गलगृहं यदि ।
अमङ्गलं कथमहं, तव रक्षितुमीश्वरी ॥ १०९ ॥ तया च देवतावाचा, तोत्रेणेव प्रवर्तितः । प्रतिग्रामं प्रतिपुरिं, भ्रमन्नहमिहागमम् ॥ ११० ॥ अपि धात्र्याः समस्तायास्राता त्वमसि 'विश्रुतः । न कोऽपि प्रतिमल्लोsपि, दोम्मदग्रेसरस्य ते ॥ १११ ॥ वैताढ्यगिरिदुर्गस्थश्रेणिद्वयगतास्तव ।
४९
विद्याधरा अपि दधत्याज्ञां शिरसि माल्यवत् ॥ ११२ ॥ देवा अपि तवादेश, सदा कुर्वेति भृत्यवत् । वांछितार्थं प्रयच्छन्ति, निध्यश्च तवानिशम् ॥ ११३ ॥ ततस्त्वां शरणं प्राप्तो, "दीनत्राणैकसत्रिणम् । तदग्निं मंगलगृहात् कुतोऽप्यानय मत्कृते ॥ ११४ ॥ विपन्नमपि मे पुत्रं, सा यथा कुलदेवता । प्रत्यानयति येनास्मि, दुःखितः पुत्रमृत्युना ॥ ११५ ॥
- त्रिषष्टि० प० २, स० ६, पृ० ८९ ।
१ गतप्राण इव । २ समर्था । ३ वेणुदण्डेनेव । ४ प्रसिद्धः । ५ दीनरक्षणे निश्चितदीक्षितम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com