________________
करुणरसकदम्बकम्
__ [३१] पितुर्मृत्युसमये विष्णोस्तन्मातुश्चरोदनम् । तत्र च प्रविशन् विष्णुर्जननीद्वाःस्थयैकया । अग्रे भूत्वा सकरुणं व्यज्ञपीदमुदश्रिया ॥ १११ ॥ कुमार ! परित्रायस्व परित्रायस्व नन्वसौ । जीवत्यपि महाराजे देवीदं दुर्व्यवस्यति ॥ ११२ ॥ तदाकर्ण्य वचो विष्णुः संभ्रान्तो मातुरालयम् । जगाम वीक्षाञ्चक्रे च मातरं ब्रुवतीमिति ॥ ११३ ॥ पतिप्रसादादुद्भूता ये प्राज्या रत्नराशयः । अनन्तं काञ्चनं यच्च ये वा रजतसञ्चयाः ॥ ११४ ॥ मुक्तामया वज्रया जात्यरत्नमयाश्च ये । संमिश्रा ये च नेपथ्यसमुदायाः सहस्रशः ॥ ११५ ॥ यच्चान्यत् कोशसर्वस्वं सप्तक्षेत्र्यां तदर्प्यताम् । महापथप्रस्थितानां पाथेयं हीदमादिमम् ॥ ११६ ॥ पत्युवितौ वैधव्यसहास्मि न मनागपि । अहं तदने यास्यामीत्यनल: सज्ज्यतां द्रुतम् ॥ ११७ ॥ इति ब्रुवाणां जननी जननी दुःखसम्पदः । उपेत्य नत्वा च हरिाहरगद्गदाक्षरम् ॥ ११८ ॥
१ अनुचितं व्यवस्यति । २ मृत्युमार्गप्रस्थितानाम् । ३ विनाशे । ४ जनयित्रीम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com