SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् मातर्मातस्त्वमपि मां मन्दभाग्यं किमुज्झसि । अहो विरुद्धं मे दैवं देव्यैवं यत् प्रचक्रमे ॥ ११९ ॥ अम्मादेव्यप्युवाचैवं तज्ज्ञैः सम्यक परीक्षितः । त्वत्तातस्योपस्थितोऽयं रोगः प्राणहरो हरे ! ॥ १२० ॥ नालं क्षणमपि श्रोतुं विधवेत्यक्षराण्यहम् । कोसुंभधारिणी यास्याम्यग्रतस्त्वपितुस्ततः ॥ १२१ ॥ कृतार्थ मेऽभवजन्म पत्या शिवमहीभुजा । पुत्र ! त्वया च पुत्रेण पञ्चमेनार्धचक्रिणा ॥ १२२ ॥ पत्युर्विपतौ यास्यन्ति मत्प्राणाः स्वयमेव हि । त्यक्ष्यामि तान् प्रविश्याग्नौ मा भून्मे हीनसत्वता ॥ १२३ ।। तत्क्षत्रियकुलाचारमाचरन्त्या समाधुना । मा स्म भूरन्तरायस्त्वं वत्स ! वात्सल्यतोऽपि हि ॥ १२४ ॥ समं 'सुदर्शनेन' त्वं पुत्र ! नंद मदाशिषा ।। प्रत्युरो प्रयाम्येषा कृष्णवत्मैकवर्मना ॥ १२५ ॥ अन्तिमां प्रार्थनां तेऽद्य कुमारैनां करोम्यहम् । निषेधकं विधेरस्य त्वया वाच्यं न किञ्चन ॥ १२६ ॥ एव मुक्त्वा तु सा स्वामिविपच्छ्रवणकातरा । परलोकपुरद्वारं प्रवेष्टुमनलं ययौ । १२७ ॥ दुःखानुबन्धिभिर्दुःखैः श्लथाङ्गो वीवधैरिख । समेऽपि प्रस्खलत्पादः पितुः पार्श्व ययौ हरिः ॥ १२८ ॥ १ वैद्यैस्त्यिर्थः । २ अगिमार्गेण । ३ मरणविधेः। ४ भारैरिव । ५ समप्रदेशेऽपि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy