________________
.५२
करुणरसकदम्बकम्
स्मरन् स्वां मातरं पश्यंस्तथा पितरमातुरम् । प्रतीकारासहो विष्णुः क्लीबमान्यपतद्भुवि ॥ १२९ ॥ राजा दाहज्वरार्तोऽपि बभाषे धैर्यमाश्रयन् । किमेतद्वत्स ! कौतर्य स्वकुलानुचितं तव ॥ १३० ॥ इयं हि त्वद्भुजाधारा वत्स ! देवी वसुन्धरा । अधैर्यानिपतन्नस्यां कथं नाम न लज्जसे ॥ १३१ ।। त्वय्युच्चैः पुरुषसिंह इत्याख्याकारिणो मम । अज्ञानकारितां मा दास्त्वमेवं धैर्यमुत्सृजन् ॥ १३२ ॥ एवं शाङ्गिणमाश्वास्य शिवराजः शिवाशयः । कालधर्म ययो सायं कः कालं यातुमीश्वर ? ॥१३३॥ श्रुत्वा च मूच्छितो विष्णुः पपात धरणीतले । महागुमो वात्ययेव वातेनेव च वातकी ॥ १३४ ॥ अथ सिक्तः पयस्कुम्भैलब्धसंज्ञो जनार्दनः । हा तात ! तात! तातेति क्रन्दन्नुत्तिष्ठति स्म च ॥ १३५ ॥ न कि सन्तप्यते तेऽङ्गं गुणः कस्यौषधस्य वा । प्रत्यय कस्य वैद्यस्य सुरवनिद्राथवाद्य क्रिम् ॥ १३६॥ ब्रूहि तात ! प्रसादं मे कृत्वेति स्नेहमोहितः । प्रललाप क्षणं विष्णुर्विललाप च तत्क्षणम् । १३७ ।।
- त्रिषष्टिः प० ४, स० ५, पृ० ७३ ।
३
१ रोगग्रस्तम् । २ रोगोपायेऽसमर्थः । ३ मीरुत्वम् । ४ वातसमूहेन झंझावातेन वा। ५ वातरोगी पुमान् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com