________________
करुणरसकदम्बकम्
[३२] दवदन्तीत्यागसमये नलस्य शोकः प्रियविरहे च दवदन्त्या विलापः ।
५३
दवदन्त्येक वस्त्रेयमेका स्वपिति वर्त्मनि । अहो नलस्य शुद्धान्तमसूर्यपश्यमीदृशम् ॥ ५२९ ॥ अहो मत्कर्मदोषेण कुलीनेयं सुलोचना । प्रविवेश दशामेवं हताशः किं करोम्यहम् ॥ ५३० ॥ मयि सत्यपि पार्श्वस्थेऽप्युन्मत्तवदनाथवत् । भूमौ शेते वरोरोहा जीवत्यद्यापि ही नलः ॥ ५३१ ॥ मयैकाकिन्यौ मुक्ता प्रबुद्धा मुग्धलोचना | मोक्ष्यते जीवितेनापि स्पर्द्धयेव मया सह || ५३२ ॥ भक्तां तदेनां वञ्चित्वा नान्यतो गंतुमुत्सहे । जीवितं मरणं वापि मम स्तादनया सह ॥ ५३३ ॥ अथवानेकदुःखानामरण्ये नरकोपमे ।
पात्र नारकिक इव भवाम्येको हस्त्वसौ ॥ ५३४ ॥ मया तु वस्त्रे लिखितामाज्ञां कृत्वा मृगाक्ष्यसौ । स्वयं गत्वा कुशलिनी वत्स्यति स्वजनौकसि ॥ ५३५ ॥ इति निश्चित्य तां रात्रिमतिक्रम्य च नैषधिः । प्रबोधसमये पल्यास्तिरोधात्त्वरितक्रमम् ॥ ५३६ ॥
१ अन्तःपुरम् । २ वरः श्रेष्ठ आरोहः शयनं यस्याः सा । ३ निजपितृगृहे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com