________________
करुणरसकदम्बकम्
यथैषां बन्धनान्मोक्षः कर्मबन्धात्तथात्मनः । कर्तुं दीक्षामुपादास्ये सौख्याद्वैतनिबन्धनाम् ॥ १८४ ॥ तन्नेमिवचनं श्रुत्वा तौ द्वावपि मुमूर्च्छतुः । रुरुदुर्यदवः सर्वेऽप्यनुद्धृतविलोचनाः ॥ १८५ ॥ शिवासमुद्रविजयौ समाश्वास्य जनार्दनः । रुदितं च प्रतिषिध्य बभाषेऽरिष्टनेमिनम् ॥ १८६॥ मम रामस्य तातानां सदा मान्योऽसि मानद ! । रूपं निरुपमं चेदं यौवनं च नवं तव ॥ १८७ ॥ किं च सापि स्नुषा राजीमती राजीवलोचना । तवानुरूपा तद् ब्रूहि किं ते वैराग्यकारणम् ॥ १८८ ॥ ये चैते पशवो दृष्टा स्त्वया तेऽपि हि मोचिताः । पितॄणां बान्धवानां च तत्पूरय मनोरथम् ॥ १८९ ॥ पितरौ शोकनिर्मग्नौ न ह्युपेक्षितुमर्हसि ।
तत्रापि हि कुरु भ्रातः सर्वसाधारणीं कृपाम् ॥ १९० ॥ प्रीणिताः प्राणिनो दीना यथैते भवता तथा । भातृन् प्रीणय रामादीनपि स्वोद्वाहदर्शनात् ॥ १९९ ॥
४७
- त्रिषष्टि० प० ८, स० ९, पृ० १३६ ।
१ मन्दलोचनाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com