________________
४६
करुणरसकदम्बकम्
[२९] दयावीरश्रीनेमिनाथस्याये। पशूनां शिवादेवीप्रमुखपरिवाराणां चाक्रन्दनम् ।
ततो नेमिर्दयावीरो बभाषे निजसारथिम् । यत्रैते प्राणिनः सन्ति स्यन्दनं नय तत्र मे ॥ १७५ ॥ तथैव सारथिश्चक्रे ददर्श भगवानपि । विविधान् प्राणिनः प्राणापहारचकितात्मनः ॥ १७६ ॥ ग्रीवायां रज्जुभिर्बद्धाः केऽपि केऽपि च पादयोः । केऽपि क्षिप्ताः पञ्जरान्तः केऽपि पाशेषु पातिताः ॥ १७७ ॥ उन्मुखा दीननयना वेपमानशरीरकाः । ते प्रेक्षांचक्रिरे नेमि प्रीणकं दर्शनादपि ॥ १७८ ॥ पाहि पाहीति ते नेमि स्वस्वभाषाभिरब्रुवन् । तांश्च सारार्थिमाज्ञाप्य नेमिनाथोऽप्यमोचयत् ॥ १७९ ॥ स्वं स्वं स्थानं ततस्तेषु गतेषु प्राणिषु प्रभुः । रथं निवर्तयामास पुनर्निजगृहं प्रति ॥ १८० ॥ शिवा समुद्रविजयः कृष्णो रामोऽपरेऽपि हि । विहाय स्वस्वयानानि नेमिनः पुरतोऽभवन् ॥ १८१ ॥ शिवासमुद्रविजयावूचाते साश्रुलोचनौ । कस्मादकस्मादप्यस्माद्विनिवृत्तस्त्वमुत्सवात् ॥ १८२ ।। नेमिरप्यब्रवीदेते प्राणिनो बन्धनैर्यथा ।
बद्धास्तथा वयमपि तिष्ठामः कर्मबन्धनैः ॥ १८३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com