Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi

View full book text
Previous | Next

Page 287
________________ करुणरसकदम्बकम् __ [३१] पितुर्मृत्युसमये विष्णोस्तन्मातुश्चरोदनम् । तत्र च प्रविशन् विष्णुर्जननीद्वाःस्थयैकया । अग्रे भूत्वा सकरुणं व्यज्ञपीदमुदश्रिया ॥ १११ ॥ कुमार ! परित्रायस्व परित्रायस्व नन्वसौ । जीवत्यपि महाराजे देवीदं दुर्व्यवस्यति ॥ ११२ ॥ तदाकर्ण्य वचो विष्णुः संभ्रान्तो मातुरालयम् । जगाम वीक्षाञ्चक्रे च मातरं ब्रुवतीमिति ॥ ११३ ॥ पतिप्रसादादुद्भूता ये प्राज्या रत्नराशयः । अनन्तं काञ्चनं यच्च ये वा रजतसञ्चयाः ॥ ११४ ॥ मुक्तामया वज्रया जात्यरत्नमयाश्च ये । संमिश्रा ये च नेपथ्यसमुदायाः सहस्रशः ॥ ११५ ॥ यच्चान्यत् कोशसर्वस्वं सप्तक्षेत्र्यां तदर्प्यताम् । महापथप्रस्थितानां पाथेयं हीदमादिमम् ॥ ११६ ॥ पत्युवितौ वैधव्यसहास्मि न मनागपि । अहं तदने यास्यामीत्यनल: सज्ज्यतां द्रुतम् ॥ ११७ ॥ इति ब्रुवाणां जननी जननी दुःखसम्पदः । उपेत्य नत्वा च हरिाहरगद्गदाक्षरम् ॥ ११८ ॥ १ अनुचितं व्यवस्यति । २ मृत्युमार्गप्रस्थितानाम् । ३ विनाशे । ४ जनयित्रीम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326