Book Title: Karunras Kadambakam
Author(s): Kasturvijay Gani
Publisher: Jivanbhai Chotalal Sanghvi
View full book text
________________
~
~
~
-
~
~
~
~
करुणरसकम्दयकम्
[२३] बन्धुवधे बलदेवस्य परिदेवनम् । सुप्तोऽसौ सुखमस्तीति बुध्या तस्थौ क्षणं बलः । दृष्ट्वा च मक्षिकाः कृष्णाः कृष्णास्याद्वस्त्रमाक्षिपत् ॥ २ ॥ ततोऽज्ञासीन्मृतं बन्धुं बलः सद्योऽथ मूर्छया । पपात जगतीपृष्ठे कृन्तमूल इव द्रुमः ।। ३ ।। कथंचिल्लब्धसञ्ज्ञः सन् सिंहनादं बलोऽकरोत् । वित्रेसुः श्वापदास्तेन चकम्पे चाखिलं वनम् ॥ ४ ॥ इत्युवाच च येनेह सुखसुप्तो ममानुजः । विश्चैकवीरः पापेन निजघ्ने स्वं स शंसतु ॥ ५ ॥ स मे समक्षीभवतु सत्यं हि सुभटो यदि । सुप्तप्रमत्तभ्रूणर्षिस्त्रीषु हि प्रहरेत कः ? ॥ ६ ॥ इत्युच्चैः शब्दमाक्रोशन रामो बभ्राम तद्वनम् । भूयः कृष्णमुपेयाय तमालिङ्गय रुरोद च ॥ ७ ॥ हा भ्रातरवनीवीर ! हा मदुत्संगलालित ! । हा कनिष्ठगुणज्येष्ठ ! विश्वश्रेष्ठ ! क तिष्ठसि ? ॥ ८ ॥ विना भवन्तं न स्थातुमीशोऽस्मीति पुराऽवदः । वचोऽपि नाधुना दत्से क सा प्रीतिर्ननार्दन ! ? ॥ ९ ॥ नापराधं स्मरामि स्वं रुषितश्च निरीक्ष्यसे । किं वा यो मे विलम्बोऽभूत् स ते रोषस्य कारणम् ? ॥१०॥
१ प्रत्यक्षीभवतु । २ गर्भः । ३ समर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326