Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 338
________________ समाचारी कल० प्रदीपिका व्याख्या-वासावासमित्यादितो........नो से कप्पइ गिलाणनीसाए पाडिगाहित्तए इत्यन्तम् । तत्र । अस्त्येकेषां वैयावृत्त्यकरादीनामेवमुक्तपूर्व भवति गुरुं प्रतीति शेषः । अर्थो भदन्त ! ग्लानस्य विकृत्येति काका प्रश्नाऽवगतिः । वैयावृत्त्यकृता पृष्ठे स यं वइज्झा स च गुरुर्वदेत् अर्थः से अ पुच्छेअव्वो से ग्लान: पृष्टव्यः । केवइएणं अट्ठो कियता विकृतिजातेन वाऽर्थः, तेन ग्लानेन स्वप्रमाणे उक्त स वैयावृत्त्यकरो गुरूं ब्रुयात् । एवइयेणं अट्ठो गिलाणस्स इयताऽर्थो ग्लानस्य ततो गुरुराह-जं से इति यत्स ग्लानः प्रमाणं वदति तत्प्रमाणेन मे इति तद्विकृतिजातं ग्राह्य त्वया । से अ विण्णविज्जा स च वैयावृत्त्यः ज्ञापयेत्याचेत् । स च याचमानो लभेत तद्वस्तु तच्च प्रमाणप्राप्तं पर्याप्तं जातं ततश्च होउ अलाहि साधुप्रसिद्धा | इत्थमिति शब्दस्याऽर्थो भवत्विति पदं अलाहित्ति मृतमिति वाच्यं । गृहस्थं प्रति ततो गृही प्राह-अथ किमाहुर्भदन्ताः किमर्थ मृतमिति ब्रुवते भवन्तः इत्यर्थः। साधुराह-एवइएणं अट्ठो गिलाणस्स ग्लानस्य | सिआ-कदाचित् एनं साधुमेवं वदन्तं परो दाता वदेत् । हे आर्ये! प्रतिगृहाण त्वं पश्चाद्यधिक तत्त्वं | भोक्ष्यसे-भुञ्जीथाः पक्कान्नादि, पास्यसि पिबेः क्षीरादि दाहिसित्ति पाठे तु दद्या वाऽन्यसाधोः । एवमुक्ते | गृहिणा से तस्य साधोः कल्पते प्रतिगृहीतुं न पुनर्लानिनिया गार्द्धयात्स्वयं गृहीतुं ग्लानार्थ याचितं मण्डल्यां नानेयमित्याकूतम् [ इति तात्पर्यम् ] ॥ १८॥

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376