Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
[अथ प्रशस्तिः ] श्रीवीरक्रमसेवापरायणः श्रीसुधर्मनामाऽऽसीत् । प्रथमो गणाधिराजः, ततः क्रमात् हीरविजयगुरुः ॥ ३ ॥ यद्वचनरञ्जितश्रीअकब्बरक्षितिधरोऽखिले देशे । षण्मासाऽवधि जीवाऽभयप्रदानं विधत्ते स्म ॥ ४॥ तत्पट्टोदयभूभृततरणिः श्रीविजयसेनसूरीन्द्रः । आवसुधाचन्द्रार्क, यत्कीर्तिनिश्चला तस्थौ ॥५॥ तत्पट्टभालभूषण-सूरिश्रीविजयदेवमुनिराजः। सम्पति जयति जगत्यां जनयनभिवाञ्छित वस्तु ॥ ६ ॥
संशोधनकालः-संशोधकनिर्देशश्वअमृतोपमानवचसा, शारदसम्पूर्णसोमसमयशसः । तस्य प्रवरे राज्ये, वसुधाऽष्टरसेन्दुमितवर्षे [१६८१] ॥ ७॥ श्रीमत्कल्याणविजयवाचककोटीतटीकिरीटानाम् । शिष्यैः श्रीधनविजयैः वाचकचूडामणिमुख्यैः ॥ ८॥ कल्पप्रदीपिकायाः पतिरेषा शोधिता चिरं जयतु । मात्सर्यमुक्तमनसा विबुधेरपरैश्च संशोध्या ॥९॥ ___ कल्पवृत्तिमानम्| प्रत्यक्षरगणनया, भवति कल्पप्रदीपिकाग्रन्थे । श्लोकानां द्वात्रिंशत् , शतानि पञ्चाशदधिकानि [३२५० ] ॥ १०॥
संवत् १६८३ वर्षे वैशाख सुदि ७ गुरुवासरे लिखिता महिसाणपुरे लेखकपाठकयोः शुभं भवतु। श्रीमहिसाणकनगरवास्तव्यतश्रीमालिज्ञातीय-वृद्धशाखीय-श्रेष्ठिनाकरभार्यावाईमारंगदेसुतश्रेष्ठिपुनाख्येन सवृत्तिकल्पसूत्रप्रति लिखापिता स्वश्रेयसे ।

Page Navigation
1 ... 373 374 375 376