Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
यपुराधिपतिरुदयननृपः, स हि विद्युन्माल्यर्पितदेवाधिदेवप्रतिमार्चकगान्धारश्राद्धार्पितगुटिकाजाताऽद्भुतरूपाया देवदत्ताया दास्या हर्तारं चतुर्दशमुकुटबद्धनृपसेव्यं मालवाधिपं चण्डप्रद्योतं रणे बवा पश्चादागच्छन् दशपुरस्थाने पर्युषणायां कृतोपवासः सूपैः पृथग्भोजनाय पृष्टे विषभ्रान्त्या ममाप्यद्योपवासोऽस्तीति वदति, धूर्तसाधर्मिकेऽप्यस्मिन् वः मम कथं प्रतिक्रान्तिशुद्धिरिति ज्ञात्वातं मुक्त्वा क्षमायत्वा च मम दासीपतिरिति पूर्वलिखिताक्षरस्थगनार्थ भाले पट्टबन्धं दत्त्वा मालवदेशं दत्तवानिति । न पुनः कुम्भकारक्षुल्लकदृष्टान्तेन द्रव्यत एव क्षामणकं विधेयम् , स चैवम्-कश्चित् क्षुल्लकः कुम्भकारभाण्डानि कर्करैः सच्छिद्रीकुर्वन् मा कुर्वित्थं कुलालेन निवारितो 'मिच्छामि दुक्कडं' इति वाङमात्रेण वदन्नपि पुनः पुनः तथा कुर्वन् एकदा कुलालेन कर्णमोटनपूर्वकं कथमहं पीडये त्वयेति भणन् ‘मिच्छामि दुक्कडं ' इति क्षुल्लकवत्पाठमात्रमुच्चरन शिक्षितः, एवं मिथ्यादुष्कृतं न देयम् , उपशान्तोपस्थितस्य चमूलं दातव्यम् ॥१८॥ वासावासं प० इह खलु निग्गंथाण वा २ अज्जेव कक्खडे कडुए विग्गहे समुप्पज्जिज्जा; सेहे राइणियं खामिज्जा राइणिए वि सेहं खामिज्जा; (ग्रं० १२०० ) खमियवं खमावियत्वं उवसमियत्वं उवसमावियवं संमुइसंपुच्छणाबहुलण होयवं; जो उवसमइ तस्स अस्थि आराहणा; . जो उन उवसमइ तस्स नत्थि आराहणा; तम्हा अप्पणा चेव उवसमियवं; से किमाहू भंते ! उवसमसारं खु सामन्नं ॥ ५९ ॥

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376