Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 369
________________ भद्रे ! तवेदृशं न युक्तम्, साप्यूचे 'नेदृशं पापं भूयः करिष्ये' इत्युक्त्वा पादयोः पतिता, तावता प्रवर्तिन्या निद्राऽऽगात्, तया च तथैव स्थितया शुभभावतः क्षामणेन केवलज्ञान प्राप्तम्, सर्पव्यतिकरेण प्रबुद्धा सती कथं सर्पोऽज्ञायीति प्रश्नेन केवलज्ञानं ज्ञात्वा मृगावती क्षमयन्ती चन्दनाऽपि केवलज्ञानमापेति ॥ ५९॥ वासावासं प० कप्पइ निग्गंथाण वा २ तओ उवस्सया गिन्हित्तए तं वेउविया पडिलेहा साइज्जिया पमजणा ॥ ६०॥ व्याख्या-वासवासमित्यादितः....पमज्जणा इत्यन्तम्, तत्र वर्षासु उपाश्रयास्त्रयो ग्राह्याः संसक्तिजलप्लावनादिभयात्, तमितिपदं तत्रार्थे सम्भाव्यं वेउब्विया क्वाऽपि विउद्विआ उभयत्राऽपि पुनः पुनरित्यर्थः, साइज्झिआ पमज्जण त्ति आर्षे 'साइज्ज धातुरास्वादनेऽस्ति, तत्र उपभुज्यमानो य उपाश्रयः तत्सम्बन्धिनी प्रमार्जनाऽपि साइझिया अयं भावः-यस्मिन्नुपाश्रये स्थिता साधवस्तं प्रातः प्रमार्जयन्ति १, पुनर्भिक्षागतेषु साधुषु २ पुनः पुनः प्रतिलेखनाकाले तृतीयप्रहरान्ते ३ चेति वारत्रयं प्रमार्जयन्ति वर्षासु, ऋतुवद्धे तु दिः, अयं च विधिरसंसक्ते संसक्ते पुनः पुनः प्रमार्जयन्ति शेषोपाश्रयद्वयं प्रत्यहं प्रतिलिखन्ति-प्रत्यवेक्षन्ते, मा कोऽपि तत्र स्थास्यति ममत्वं वा करिष्यतीति तृतीयदिने प्रमार्जयन्ति अत उक्तं वेउब्विआ पडिलेह त्ति ॥ ६ ॥

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376