Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 357
________________ सूत्राद्यभ्यस्यन्ति गाणमो वाऽन्ये आचार्याः सूत्राद्यर्थमुपसम्पन्नाः, गणधरः - तीर्थ कुच्छिष्यादिः, गणावच्छेदको यः साधून गृहीत्वा बहिःक्षेत्रे आस्ते, गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्त्ता सूत्रार्थोभयक्ति यं चान्यं सामान्यसाधुमपि वयःपर्यायाभ्यां हीनमपि गीतार्थतया गुरुत्वेन पुरस्कृत्य विहरति, ते असे विअरिजा ते चाचार्यादयः से तस्य वितरेयुः -अनुर्ज्ञा दद्युः, से किमाहु भंते त्ति गुरुः आह-आयरिया पचवायं जाणंति त्ति 'बहुवचनान्ता गणस्य सूचका, भवन्ती' ति न्यायात्, आचार्या इति आचार्यादयः प्रत्यपायं अपायं तत्परिहारं च जानन्ति, प्रातकूलोऽपायस्य प्रत्यपाय इति विग्रहेण अपायपरिहारेऽपि प्रत्यपायशदो ज्ञेयः, अनापृच्छय गतानां दृष्टिर्वा पतेत् प्रत्यनीकाः उपद्रवेयुः कलहो वा केनचित् आचार्यबालग्लानादि प्रायोग्यं ग्राह्यं वाऽभविष्यत् ते चातिशयवन्तस्तत्सर्वं ज्ञात्वा तस्मै अदापयिष्यन् ॥ ४६ ॥ एवं बिहारभूमिं वा विआरभूमिं वा अन्नं वा जं किंचि पओयणं एवं गामाणुगामं दूइज्जत् ॥ ४७ ॥ व्याख्या - एवं विहारेत्यादितो.... दूइजित्तए इत्यन्तम् तत्र विहारभूमिः - चैत्यादिगमनं, विचारभूमिः शरीरचिन्ताद्यर्थगमनं, अन्यद्वा प्रयोजनं लेपादिकमुत्स्वा (च्छ्वा) सादिवर्ज सर्व्वे पृष्ट्वैव कर्त्तव्यं गुरुपारतन्त्र्यस्यैव ज्ञानादिरूपत्वात् गामाणुगामं दूइज्जित्तए त्ति हिण्डितुं भिक्षाद्यर्थ कारणे वा ग्लानादौ अन्यथा हि वर्षा ग्रामानुग्रामं हिण्डनमयुक्तमेव ॥ ४७ ॥

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376