Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 275
________________ मण्डले वर्त्तमाने सूर्ये, ततो यत् प्रकाश्यं वस्तु यत्संस्थानं भवति तस्य छायाऽपि तथासंस्थानोपजायते, तत उक्तम् - वृत्तस्य | वृत्तया इत्यादि, एतदेवाह - 'स्वकायमनुरङ्गिन्या' स्वस्य - स्वकीयस्य छायानिबन्धनस्य वस्तुनः कायः शरीरं स्वकायस्तमनुरज्यते - अनुकारं विदधातीत्येवंशीला अनुरङ्गिनी 'द्विषग्रहे' त्यादिना' (श्रीसिद्ध ५ - २ - ४० युजरञ्जद्विप ० ) घिनञ्प्र| त्ययस्तया स्वकायमनुरङ्गिन्या छायया सूर्योऽनु-प्रतिदिवसं परावर्त्तते, एतदुक्तं भवति - आषाढस्य प्रथमादहोरात्रादारभ्य | प्रतिदिवसमन्यान्यमण्डलसङ्क्रान्त्या तथा कथंचनापि सूर्यः परावर्त्तते यथा सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवतीति शेषं सुगमं, इदं च पौरुषीप्रमाणं व्यवहारत उक्तं, निश्चयतः सार्द्धस्त्रिंशताऽहोरात्रैश्चतुरंगुला वृद्धिर्हानिर्वा वेदितव्या, तथा च निश्चयतः पौरुषी प्रमाणप्रतिपादनार्थमिमाः पूर्वाचार्य प्रसिद्धाः करणगाथा: - 'पवे पण्णरसगुणे तिहिसहिए पोरिसीइ आणयणे । छलसीअसियविभत्ते जं लद्धं तं विआनाहि ॥ १ ॥ जइ होइ विसमलद्धं दक्खिणमयणं ठविज्ज नायबं । अह हवइ समं लद्धं नायबं उत्तरं अयणं ॥ २ ॥ | अयणगए तिहिरासी चउग्गुणे पचपायभइयंमि । जं लद्धमंगुलाणि य खयवुड्डी पोरिसीए उ ॥ ३ ॥ दक्खिणबुडी दुपया अंगुलाणं तु होइ नायबा । उत्तरअयणे हाणी कायद्या चउहि पायाहिं ॥ ४ ॥ सावण बहुलपडिवया दुपया पुण पोरिसी धुवा होइ । चत्तारि अंगुलाई मासेणं वद्धए तत्तो ॥ ५ ॥ इकत्तीस इभागा तिहिए पुण अंगुलस्स चत्तारि । दक्खिणअयणे बुद्धी जाव य चत्तारि उ पयाई ॥ ६ ॥ उत्तरअयणे हाणी चउहिं पायाहिं जाव दो पाया । एवं तु पोरिसीए Jain Education International For Private & Personal Use Only witter:www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332