Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 297
________________ आलीनं-सुश्लिष्टं निर्भरभरकेशत्वात् प्रमाणयुक्तं-चरणावधि लम्बमानत्वात् वर्तितं-वर्तुलं सुजाता-लक्षणप्रशस्ता रमणीया-मनोहरा वाला यस्य तत् एवंविधं गात्रपरिपुञ्छनं-पुच्छं येषां ते तथा तेषां, तिर्यञ्चो हि पुच्छेनैव गात्रं प्रमार्जयन्तीति, तथा उपचिता-मांसलाः परिपूर्णाः-पूर्णावयवास्तथा कूर्मवदुन्नताश्चरणास्तैर्लधुलाघवोपेतः-शीघ्रतर इत्यर्थः विक्रमः-पादविक्षेपो येषां ते तथा तेषां, तथा अङ्करत्नमयनखानां तवणिजजीहाणमित्यादि नव पदानि प्राग्वत् , महता-बहुव्यापिना गम्भीरः-अतिमन्द्रो गुलुगुलायितरवो-बृंहितशब्दस्तेन मधुरेण मनोहरेण अम्बरं पूरयन्ति दिशश्च | शोभयन्तीत्यादि प्राग्वत् । अथ तृतीयवाहावाहकानाह-'चन्दविमाणस्स ण'मित्यादि, चन्द्रविमानस्य पश्चिमायां| जिगमिषितदिशः पृष्ठभागे वृषभरूपधारिणां देवानां चत्वारि देवसहस्राणि पश्चिमां बाहां परिवहन्तीत्यर्थः, श्वेतानां सुभगानामित्यादि प्राग्वत् , चलचपलं-इतस्ततो दोलायमानत्वेनास्थिरत्वादतिचपलं ककुदं-अंसकूटं तेन शालिनाशोभायमानानां तथा घनवद्-अयोधनवन्निचितानां-निर्भरभृतशरीराणामत एव सुबद्धानां-अश्लथानां लक्षणोन्नतानांप्रशस्तलक्षणान्मं तथा ईषदानतं-किञ्चिन्नम्रभावमुपागतं वृषभौष्ठ-वृषभौ-प्रधानौ लक्षणोपेतत्वेनौष्ठौ यत्र तत्, समर्थ-9 विशेषणेन विशेष्यं लभ्यत इति मुखं येषां ते तथा, ततः पूर्ववत् पदचतुष्टयकर्मधारयस्तेषां, तथा चंक्रमितं-कुटिल-9 गमनं ललितं-विलासवद्गमनं पुलितं-गतिविशेषः स चाकाशक्रमणरूपः एवंरूपा चलचपला-अत्यन्तचपला गर्विता गतिर्येषां ते तथा सन्नतपार्थानां अधोऽधःपार्थचोरवनतत्वात् तथा सङ्गतपार्थानां-देहप्रमाणोचितपार्थानां तथा| 200000000000000000000000000 Jain Education intuitoils For Private Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332