Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Recenesseeeeeeeeeeeeee
पति -पतेसि ण'मित्यादि, एतेषां भदन्त! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे सर्वमहर्द्धिकाः कतरे च || चकारोऽत्र गम्यः सर्वाल्पर्धिकाः?, भगवानाह-गौतम! तारारूपेभ्यो नक्षत्राणि महर्द्धि कानि नक्षत्रेभ्यो ग्रहा महर्द्धिकाः ||
या मर्यामहर्द्धिकाः सूर्येभ्यश्चन्द्रा महर्द्धिकाः, अत एव सर्वाल्पर्धिकास्तारारूपाः सर्वमहर्द्धिकाश्चन्द्राः, इयमत्र भावना-तिविचारणायां ये येभ्यः शीघ्रा उक्तास्ते तेभ्यःऋद्धिविचारणायामुत्क्रमतो महर्द्धिका ज्ञेया इति । अथ द्वादशद्वारप्रश्नमाह-'जम्बुद्दीवे ण'मित्यादि, जम्बूद्वीप भदन्त! द्वीपे तारायास्तारायाश्च कियदबाधया अन्तरं प्रज्ञप्तम् ?, भगवानाट_गौतम! द्विविध-व्याघातिक निव्योघातिकं च, तत्र व्याघात:-पर्वतादिस्खलनं तत्र भवं व्याघातिकं. निव्यापातिक व्यापातिकान्निर्गतं स्वाभाविकमित्यर्थः, तत्र यन्निाघातिक तजघन्यतः पञ्चधनुःशतानि उत्कृष्टतो द्वे गव्यूते, एतच्च जगत्स्वाभाव्यादेवावगन्तव्यं, यच्च व्याघातिकं तजघन्यतो द्वे योजनशते षषष्ट्यधिके, एतच्च निषधकूटादिकमपेक्ष्य वेदितव्यं, तथाहि-निषधपर्वतः स्वभावतोऽप्युच्चैश्चत्वारि योजनशतानि तस्य चोपरि पञ्चयोजनशतोच्चानि कूटानि तानि च मूले पञ्चयोजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीये द्वे योजनशते तेषां चोपरितनभागसमश्रेणिप्रदेशे तथाजगत्स्वाभाव्यादष्टावष्टौ योजनान्यबाधया कृत्वा ताराविमानानि । परिभ्रमन्ति ततो जघन्यतो व्याघातिकमन्तरं द्वे योजनशते षषष्ट्यधिके भवतः, उत्कर्षतो द्वादश योजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके, एतच्च मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेरौ दशयोजनसहस्राणि मेरोश्चोभयतोऽबाधया
Jain Educatio
n
al
For Private & Personel Use Only
५||www.jainelibrary.org

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332