Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 301
________________ Jain Education Int परिभावनीया, तत्र सविस्तरं तद्व्याख्यानस्य कृतत्वादि" त्यतिदेशविषयीकृतत्वेन द्वयोः सूत्रयोः सदृशपाठकत्वमेव | सम्भाव्यत इति, यत्तु जीवाभिगमपाठदृष्टान्यपि 'मिअमाइ अपीणरइ अपासाण' मित्यादिपदानि न व्याख्यातानि तत् प्रस्तुतसूत्रे सर्वथा अदृष्टत्वात्, यानि च पदानि प्रस्तुतसूत्रादर्शपाठे दृष्टानि तान्येव जीवाभिगमपाठानुसारेण सङ्गतपाठीकृत्य व्याख्यातानीत्यर्थः । अथ चन्द्रवक्तव्यस्य सूर्यादिवक्तव्यविषयेऽतिदेशं चन्द्रादीनां सिंहादिसङ्ख्या संग्रहणिगाथे चाह गाहा - "सोलस देव सहस्सा " इत्यादि, अत्र सङ्गतिप्राधान्याद् व्याख्यानस्य दृश्यमानप्रस्तुतसूत्रादर्शेषु पुरः स्थितोऽपि | प्रथमं ' एवं सूरविमाणाण' मित्याद्यालापको व्याख्येयो, यथा एवं चन्द्रविमानवाहकानुसारेण सूर्यविमानानामपि वाहका | वर्णनीयाः यावत्तारारूपाणामपि विमानवाहका वर्णनीयाः यावत्पदाद् ग्रहविमानानां नक्षत्रविमानानां च विमानवाहका वर्णनीयाः, नवरं एष देवसंघातः, अयमर्थ:- सर्वेषां ज्योतिष्काणां विमानवाहकवर्णनसूत्रं सममेव तेषां सङ्ख्याभेदस्तु व्याख्यास्यमानगाथाभ्यामवगन्तव्यः, ते चेमे वक्ष्यमाणे गाहा इति-गाथे- 'सोलसे' त्यादि, पोडशदेवसहस्राणि भवन्ति चन्द्रविमाने चैवेति समुच्चये तथा सूर्यविमानेऽपि पोडश देवसहस्राणि, बहुवचनं चात्र प्राकृतत्वात्, तथा अष्टौ देव| सहस्राण्येकैकस्मिन् ग्रहविमाने तथा चत्वारि सहस्राणि नक्षत्रे चैकैकस्मिन् भवन्ति, तथा द्वे चैव सहस्रे तारारूपविमाने एकैकस्मिन्निति । अथ दशमद्वारप्रश्नमाह - एतेसि णं भन्ते । चंदिमसूरिअगगणन क्खत्ततारारूवाणं कयरे सव्यसिग्घगई कबरे सम्बसिग्घतराए चेव ?, गोअमा ! चन्देहिंतो For Private & Personal Use Only v.jalnelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332