Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः ॥५४०॥
| ७वक्षस्कारे द्वीपनामहेतुः उपसंहारः मू. १७७-१७८
श्रिया अतीव उपशोभमानास्तिष्ठन्ति, इदं च नित्यकुसुमितत्वादिकं जम्बूवृक्षाणामुत्तरकुरुक्षेत्रापेक्षया बोध्यं, अन्यथैषां प्रावृट्कालभाविपुष्पफलोदयवत्त्वेन प्रत्यक्षबाधात् , एतेन च जम्बूवृक्षबहुलो द्वीपो जम्बूद्वीप इत्यावेदितं भवति, अथवा जम्ब्यां सुदर्शनाभिधानायामनाहतनामा-पूर्व जम्बूवृक्षाधिकारे व्याख्यातनामा देवो महर्द्धिको यावत्करणात् 'महज्जुईए' इत्यादि ग्राह्यं, पल्योपमस्थितिकः परिवसति, अथ तेनार्थेन भदन्त ! एवमुच्यते-स्वाधिपत्यनाहतनामदेवाश्रयभूतया जम्ब्वोपलक्षितो द्वीपो जम्बूद्वीप इति, सूत्रैकदेशो ह्यपरं सूत्रैकदेशं स्मारयतीति 'अदुत्तरं च णं जम्बुद्दीवस्स सासए णामधेजे पण्णत्ते जण्ण कयाइ ण आसी ण कयाइ णत्थि ण कयाइ ण भविस्सइ जाव णिच्चे' इति ज्ञेयम् , जीवाभिगमादर्श तथादर्शनात्, एतेन किमाकारभावप्रत्यवतारो जम्बूद्वीप इति चतुर्थः प्रश्नो नियूंढ इति । अथ प्रस्तुततीर्थद्वादशाङ्गीसूत्रसंसूत्रणाविश्वकर्मा श्रीसुधर्मस्वामी स्वस्मिन् गुरुत्वाभिमान परिजिहीर्षुः प्रस्तुतग्रन्थनामोपदर्भनपूर्वक निगमनवाक्यमाह-तए ण'मित्यादि, शाश्वतत्वाच्छाश्वतनामकत्वाच्च सद्रूपोऽयं जम्बूद्वीपरूपो भावः, सन्तं हि भावं नापलपन्ति वीतरागास्ततः श्रमणो भगवान् महावीरो मिथिलायां नगर्या माणिभद्रे चैत्ये बहूनां श्रमणानां बहूनां| श्रमणीनां बहूनां श्रावकाणां बहूनां श्राविकाणां बहूनां देवानां बहूनां देवीनां मध्यगतो न पुनरेकान्ते एकतरस्य कस्यचित् पुरतः एवं-यथोक्तमुक्तानुसारेणेत्यर्थः आख्याति-प्रथमतो वाच्यमात्रकथनेन एवं भाषते-विशेषवचनकथनतः एवं प्रज्ञापयति-व्यक्तपर्यायवचनतः एवं प्ररूपयत्युपपत्तितः, आख्येयस्याभिधानमाह-जम्बूद्वीपप्रज्ञप्तिरिति नाम षष्ठो
॥५४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332