Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नशतसहस्रं सर्वाग्रेण प्रज्ञप्तम् , ननु ऊण्डत्वव्यवहारो जलाशयादौ उच्चत्वव्यवहारस्तु पर्वतविमानादौ प्रसिद्धः द्वीपे 31 |तु स किं, व्यवहाराविषयत्वादिति, उच्यते, समभूतलादारभ्य रत्नप्रभायामधः सहस्रयोजनानि यावद् गमनेऽधोया|मविजयादिषु जम्बूद्वीपव्यवहारस्योपलभ्यमानत्वेनोण्डत्वव्यवहारः सुप्रसिद्ध एव, तथा जम्बूद्वीपोत्पन्नानां तीर्थकृतां जम्बूद्वीपमेरोः पण्डगवनेऽभिषेकशिलायामभिषिच्यमानत्वात् जम्बूद्वीपव्यपदेशपूर्वकमभिषेकस्य जायमानत्वेनोच्चत्व-81 व्यवहारोऽप्यागमे सुप्रसिद्ध एवेति । अथास्यैव शाश्वतभावादिकं प्रश्नयन्नाह-'जम्बुद्दीवे ण'मित्यादि, इदं च यथा प्राक् | पद्मवरवेदिकाधिकारे व्याख्यातं तथाऽत्र जम्बूद्वीपव्यपदेशेन बोध्यमिति, एवं च शाश्वताशाश्वतो घटो निरन्वय॥ विनश्वरो दृष्टः किमसावपि तद्वत् उत नेत्याह-'जम्बुद्दीवे ण'मित्यादि, इदमपि प्राक् पद्मवरवेदिकाधिकारे व्याख्या-18
तमिति । अथ किंपरिणामोऽसौ द्वीप इति पिपृच्छिषुराह-'जम्बुद्दीवे णं भन्ते' इत्यादि, जम्बूद्वीपो भदन्त ! द्वीपः किं पृथिवीपरिणामः-पृथिवीपिण्डमयः किमप्परिणामः-जलपिण्डमयः, एतादृशौ च स्कन्धावचित्तरजःस्कन्धादिवदजीवप|रिणामावपि भवत इत्याशङ्कयाह-किं जीवपरिणामः-जीवमयः, घटादिरजीवपरिणामोऽपि भवतीत्याशङ्कयाह-किं पुद्गलपरिणामः-पुद्गलस्कन्धनिष्पन्नः केवलपुद्गलपिण्डमय इत्यर्थः, तेजसस्त्वेकान्तसुषमादावनुत्पन्नत्वेन एकान्तदुष्षमादौ तु विध्वस्तत्वेन जम्बूद्वीपेऽस्य तत्परिणामेऽङ्गीक्रियमाणे कादाचित्कत्वप्रसङ्गः वायोस्त्वतिचलत्वेन तत्परिणामे द्वीपस्यापि चलत्वापत्तिरिति तयोः स्वत एव सन्देहाविषयत्वेन न प्रश्नसूत्रे उपन्यासः, भगवानाह-गौतम! पृथिवी
For Private Personal Use Only
O
Jain Education US
w.jainelibrary.org

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332