Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 299
________________ Jain Education लङ्कारमेव विशेषेणाह - पद्मानि - सूर्यविकासीनि उत्पलानि - चन्द्रविकासीनि सकलानि - अखण्डितानि सुरभीणि तेषां मालास्ताभिर्विभूषितानां पदव्यत्ययः प्राग्वत्, तथा वज्ररलमयाः खुराः प्रतीता येषां ते तथा तेषां विविधाः मणिकनकादिमयत्वेन नानाप्रकारा विखुरा - उक्तखुरेभ्य ऊर्ध्ववर्त्तित्वेन विकृष्टाः खुरा येषां ते तथा तेषां तथा स्फटिकमयदन्तानां तथा तपनीयमयजिह्वानां तथा तपनीयमयतालुकानां तथा तपनीययोक्र के सुयोजितानां तथा 'कामगमाण'मित्यादि षट् पदानि प्राग्वत्, महता- गम्भीरेण गर्जितरवेण - भाङ्कारशब्दरूपेणेत्यादि प्राग्वदिति । अथ चतुर्थवाहावाहकानाह - ' चन्द्रविमाणस्स ण' मित्यादि, चन्द्रविमानस्योत्तरस्यां जिगमिषितदिश उत्तरपार्श्वे वामपार्श्वे इत्यर्थः, हयरूपधारिणां देवानां चत्वारि देवसहस्राणि उत्तरां बाहां परिवहन्तीति सम्बन्धः, श्वेतानामित्यादि प्राग्वत्, तथा तरो-बेगो बलं वा तथा 'मलि मल्लि धारणे' ततश्च तरोधारको वेगादिधारको हायनः संवत्सरो येषां ते तरोमल्लिहायना यौवनवन्त इत्यर्थः | अतस्तेषां वरतुरङ्गमाणामित्यादियोगः, तथा हरिमेलको - वनस्पतिविशेषस्तस्य मुकुलं- कुडालं तथा मल्लिका- विचकिलस्तद्वदक्षिणी येषां ते तथा तेषां शुक्लाक्षाणामित्यर्थः, तथा 'चंचुच्चिय'त्ति प्राकृतत्वेन चंचुरितं- कुटिलगमनं अथवा चंचुःशुकचंचुस्तद्वद्वतयेत्यर्थः उच्चितं-उच्चताकरणं पादस्योच्चितं वा उत्पाटनं पादस्यैव चंचूच्चितं च तत् ललितं च-विलासवद् गतिः पुलितं च-गतिविशेषः प्रसिद्धः एवंरूपा तथा चलयतीति चलो-वायुः कम्पनत्वात् तद्वच्चपलचञ्चलाअतीव चपला गतिर्येषां ते तथा तेषां तथा लंघनं गर्त्तादेरतिक्रमणं वल्गनं - उत्कूर्द्दनं धावनं - शीघ्रमृजुगमनं धोरणं - गति tional For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332