________________
Jain Education
लङ्कारमेव विशेषेणाह - पद्मानि - सूर्यविकासीनि उत्पलानि - चन्द्रविकासीनि सकलानि - अखण्डितानि सुरभीणि तेषां मालास्ताभिर्विभूषितानां पदव्यत्ययः प्राग्वत्, तथा वज्ररलमयाः खुराः प्रतीता येषां ते तथा तेषां विविधाः मणिकनकादिमयत्वेन नानाप्रकारा विखुरा - उक्तखुरेभ्य ऊर्ध्ववर्त्तित्वेन विकृष्टाः खुरा येषां ते तथा तेषां तथा स्फटिकमयदन्तानां तथा तपनीयमयजिह्वानां तथा तपनीयमयतालुकानां तथा तपनीययोक्र के सुयोजितानां तथा 'कामगमाण'मित्यादि षट् पदानि प्राग्वत्, महता- गम्भीरेण गर्जितरवेण - भाङ्कारशब्दरूपेणेत्यादि प्राग्वदिति । अथ चतुर्थवाहावाहकानाह - ' चन्द्रविमाणस्स ण' मित्यादि, चन्द्रविमानस्योत्तरस्यां जिगमिषितदिश उत्तरपार्श्वे वामपार्श्वे इत्यर्थः, हयरूपधारिणां देवानां चत्वारि देवसहस्राणि उत्तरां बाहां परिवहन्तीति सम्बन्धः, श्वेतानामित्यादि प्राग्वत्, तथा तरो-बेगो बलं वा तथा 'मलि मल्लि धारणे' ततश्च तरोधारको वेगादिधारको हायनः संवत्सरो येषां ते तरोमल्लिहायना यौवनवन्त इत्यर्थः | अतस्तेषां वरतुरङ्गमाणामित्यादियोगः, तथा हरिमेलको - वनस्पतिविशेषस्तस्य मुकुलं- कुडालं तथा मल्लिका- विचकिलस्तद्वदक्षिणी येषां ते तथा तेषां शुक्लाक्षाणामित्यर्थः, तथा 'चंचुच्चिय'त्ति प्राकृतत्वेन चंचुरितं- कुटिलगमनं अथवा चंचुःशुकचंचुस्तद्वद्वतयेत्यर्थः उच्चितं-उच्चताकरणं पादस्योच्चितं वा उत्पाटनं पादस्यैव चंचूच्चितं च तत् ललितं च-विलासवद् गतिः पुलितं च-गतिविशेषः प्रसिद्धः एवंरूपा तथा चलयतीति चलो-वायुः कम्पनत्वात् तद्वच्चपलचञ्चलाअतीव चपला गतिर्येषां ते तथा तेषां तथा लंघनं गर्त्तादेरतिक्रमणं वल्गनं - उत्कूर्द्दनं धावनं - शीघ्रमृजुगमनं धोरणं - गति
tional
For Private & Personal Use Only
www.jainelibrary.org