________________
Recenesseeeeeeeeeeeeee
पति -पतेसि ण'मित्यादि, एतेषां भदन्त! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे सर्वमहर्द्धिकाः कतरे च || चकारोऽत्र गम्यः सर्वाल्पर्धिकाः?, भगवानाह-गौतम! तारारूपेभ्यो नक्षत्राणि महर्द्धि कानि नक्षत्रेभ्यो ग्रहा महर्द्धिकाः ||
या मर्यामहर्द्धिकाः सूर्येभ्यश्चन्द्रा महर्द्धिकाः, अत एव सर्वाल्पर्धिकास्तारारूपाः सर्वमहर्द्धिकाश्चन्द्राः, इयमत्र भावना-तिविचारणायां ये येभ्यः शीघ्रा उक्तास्ते तेभ्यःऋद्धिविचारणायामुत्क्रमतो महर्द्धिका ज्ञेया इति । अथ द्वादशद्वारप्रश्नमाह-'जम्बुद्दीवे ण'मित्यादि, जम्बूद्वीप भदन्त! द्वीपे तारायास्तारायाश्च कियदबाधया अन्तरं प्रज्ञप्तम् ?, भगवानाट_गौतम! द्विविध-व्याघातिक निव्योघातिकं च, तत्र व्याघात:-पर्वतादिस्खलनं तत्र भवं व्याघातिकं. निव्यापातिक व्यापातिकान्निर्गतं स्वाभाविकमित्यर्थः, तत्र यन्निाघातिक तजघन्यतः पञ्चधनुःशतानि उत्कृष्टतो द्वे गव्यूते, एतच्च जगत्स्वाभाव्यादेवावगन्तव्यं, यच्च व्याघातिकं तजघन्यतो द्वे योजनशते षषष्ट्यधिके, एतच्च निषधकूटादिकमपेक्ष्य वेदितव्यं, तथाहि-निषधपर्वतः स्वभावतोऽप्युच्चैश्चत्वारि योजनशतानि तस्य चोपरि पञ्चयोजनशतोच्चानि कूटानि तानि च मूले पञ्चयोजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीये द्वे योजनशते तेषां चोपरितनभागसमश्रेणिप्रदेशे तथाजगत्स्वाभाव्यादष्टावष्टौ योजनान्यबाधया कृत्वा ताराविमानानि । परिभ्रमन्ति ततो जघन्यतो व्याघातिकमन्तरं द्वे योजनशते षषष्ट्यधिके भवतः, उत्कर्षतो द्वादश योजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके, एतच्च मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेरौ दशयोजनसहस्राणि मेरोश्चोभयतोऽबाधया
Jain Educatio
n
al
For Private & Personel Use Only
५||www.jainelibrary.org