Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Resettesecessseel
इत्यनेनालूप्रत्ययः, तथा प्रीतिः-चित्तोल्लासस्तेन गमो-गमनं येषां ते तथा तेषां, तथा मनोवद् गमो-गमनं वेगवत्त्वेन येषां ते तथा तेषां, तथा मनोरमाणां मनोहराणां तथा अमितगतीनां-बहुतरगतीनामित्यर्थः, तथा अमितबलेत्यादिपदानि प्राग्वत् , तथा महता आस्फोटितसिंहनादबोलकलकलरवेण मधुरेण मनोहरेण पूरयन्ति-शब्दाद्वैतं विदधानाशनि अम्बरं-नभोमण्डलं दिशश्च-पूर्वाद्याः शोभयन्ति-शोभयमानानीति विशेषणद्वयं सहस्राणीति विशेष्येण सह योज्यं ।
अथ द्वितीयबाहावाहकानाह-'चंदविमाण'इत्यादि, चन्द्रविमानस्य दक्षिणस्यां-जिगमिषितदिशो दक्षिणे पार्श्वे गजरूपधारिणां देवानां चत्वारि देवसहस्राणि दाक्षिणात्यां बाहां परिवहन्तीत्यन्वयः, एषां विशेषणायाह-सेआण'मित्यादि विशेषणचतुष्टयं प्राग्वत् , तथा वज्रमयं कुम्भयुगलं येषां ते तथा सुस्थिता-सुसंस्थाना पीवरा-पुष्टा वरा वज्रमयी शुण्डा वर्तिता-वृत्ता पदव्यत्ययः प्राकृतत्वात् तस्यां दीप्तानि सुरक्तानि यानि पद्मानि-बिन्दुजालरूपाणि तेषां प्रकाशो-व्यक्तभावो येषां ते तथा, पालकाप्यशास्त्रे हि तारुण्ये हस्तिदेहे जायमाना रक्तविन्दवः पद्मानीति व्यवह्रियन्ते । इति, ततः पदद्वयकर्मधारयस्तेषां, तथा अभ्युन्नतमुखानां पुरत उन्नतत्वात् तथा तपनीयमयावन्तररुणत्वेन विशालौ-12 इतरजीवकर्णापेक्षया विस्तीणों चश्चलौ-सहजचापल्ययुक्तौ अत एव चलन्तौ-इतस्ततो दोलायमानौ विमलौ-आगन्तुकमलरहितौ उज्ज्वलो-भद्रजातीयहस्त्यवयवत्वेन बहि:श्वेतवौँ कौँ येषां ते तथा तेषां, अत्र पदव्यत्ययः प्राग्वत् , तथा मधुवर्णे-क्षौद्रसदृशे 'भिसंति'त्ति भासमाने स्निग्धे पत्रले-पक्ष्मवती निर्मले छायादिदोषरहिते त्रिवर्णे-रक्तपी
LAKESEkkceeeeee
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332