SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Resettesecessseel इत्यनेनालूप्रत्ययः, तथा प्रीतिः-चित्तोल्लासस्तेन गमो-गमनं येषां ते तथा तेषां, तथा मनोवद् गमो-गमनं वेगवत्त्वेन येषां ते तथा तेषां, तथा मनोरमाणां मनोहराणां तथा अमितगतीनां-बहुतरगतीनामित्यर्थः, तथा अमितबलेत्यादिपदानि प्राग्वत् , तथा महता आस्फोटितसिंहनादबोलकलकलरवेण मधुरेण मनोहरेण पूरयन्ति-शब्दाद्वैतं विदधानाशनि अम्बरं-नभोमण्डलं दिशश्च-पूर्वाद्याः शोभयन्ति-शोभयमानानीति विशेषणद्वयं सहस्राणीति विशेष्येण सह योज्यं । अथ द्वितीयबाहावाहकानाह-'चंदविमाण'इत्यादि, चन्द्रविमानस्य दक्षिणस्यां-जिगमिषितदिशो दक्षिणे पार्श्वे गजरूपधारिणां देवानां चत्वारि देवसहस्राणि दाक्षिणात्यां बाहां परिवहन्तीत्यन्वयः, एषां विशेषणायाह-सेआण'मित्यादि विशेषणचतुष्टयं प्राग्वत् , तथा वज्रमयं कुम्भयुगलं येषां ते तथा सुस्थिता-सुसंस्थाना पीवरा-पुष्टा वरा वज्रमयी शुण्डा वर्तिता-वृत्ता पदव्यत्ययः प्राकृतत्वात् तस्यां दीप्तानि सुरक्तानि यानि पद्मानि-बिन्दुजालरूपाणि तेषां प्रकाशो-व्यक्तभावो येषां ते तथा, पालकाप्यशास्त्रे हि तारुण्ये हस्तिदेहे जायमाना रक्तविन्दवः पद्मानीति व्यवह्रियन्ते । इति, ततः पदद्वयकर्मधारयस्तेषां, तथा अभ्युन्नतमुखानां पुरत उन्नतत्वात् तथा तपनीयमयावन्तररुणत्वेन विशालौ-12 इतरजीवकर्णापेक्षया विस्तीणों चश्चलौ-सहजचापल्ययुक्तौ अत एव चलन्तौ-इतस्ततो दोलायमानौ विमलौ-आगन्तुकमलरहितौ उज्ज्वलो-भद्रजातीयहस्त्यवयवत्वेन बहि:श्वेतवौँ कौँ येषां ते तथा तेषां, अत्र पदव्यत्ययः प्राग्वत् , तथा मधुवर्णे-क्षौद्रसदृशे 'भिसंति'त्ति भासमाने स्निग्धे पत्रले-पक्ष्मवती निर्मले छायादिदोषरहिते त्रिवर्णे-रक्तपी LAKESEkkceeeeee Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy