Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 293
________________ नान्यवतिष्ठन्ते, केवलं ये आभियोगिका देवास्ते तथाविधनामकर्मोदयवशात् समानजातीयानां हीनजातीयाना वा ॥ देवानां निजमहिमातिशयदर्शनार्थमात्मानं बहुमन्यमानाः प्रमोदभृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा २ केचित् | सिंहरूपाणि केचिद् गजरूपाणि केचिद्वृषभरूपाणि केचित्तुरङ्गमरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्नं, तथाहि-यथेह कोऽपि तथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य सम्मत इति निजमाहात्म्यातिशयदर्शनार्थ सर्वमपि स्वोचितं कर्म प्रमुदितः करोति तथा आभियोगिका अपि देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजाती| यानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इत्येवं निजमाहत्म्या|तिशयदर्शनार्थमात्मानं बहुमन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्तीति । अथैषामेव षोडशसहस्राणां व्यक्ति-18 |माह-'चन्दविमाण'इत्यादि, चन्द्र विमानस्य पूर्वस्यां-यद्यपि जङ्गमस्वभावेन ज्योतिष्काणां सूर्योदयाङ्कितैव पूर्वा न संभवति 8 चारानुसारेण परापरदिपरावर्त्तसम्भवात् तथापि जिगमिषितदिशं गच्छतोऽभिमुखा दिक् पूर्वेति व्यवहियते, यथा|8 क्षुतदिक्, सिंहरूपधारिणां देवानां चत्वारि सहस्राणि पौरस्त्यां बाहां-पूर्वपार्श्व वहन्तीति सम्बन्धः, तेषामेव विशे-18 पायाह-'सेआण'मित्यादि, श्वेतानां श्वेतवर्णानां तथा सुभगानां-सौभाग्यवतां जनप्रियाणामित्यर्थः, तथा सुप्रभाणांसुष्ठ-शोभना प्रभा-दीप्तिर्येषां ते तथा तेषां, तथा शङ्कतलं-शंखमध्यभागो विमलनिर्मल:-अत्यन्तनिर्मलो यो दधि Jain Education i s For Private Personal Use Only

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332