SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आलीनं-सुश्लिष्टं निर्भरभरकेशत्वात् प्रमाणयुक्तं-चरणावधि लम्बमानत्वात् वर्तितं-वर्तुलं सुजाता-लक्षणप्रशस्ता रमणीया-मनोहरा वाला यस्य तत् एवंविधं गात्रपरिपुञ्छनं-पुच्छं येषां ते तथा तेषां, तिर्यञ्चो हि पुच्छेनैव गात्रं प्रमार्जयन्तीति, तथा उपचिता-मांसलाः परिपूर्णाः-पूर्णावयवास्तथा कूर्मवदुन्नताश्चरणास्तैर्लधुलाघवोपेतः-शीघ्रतर इत्यर्थः विक्रमः-पादविक्षेपो येषां ते तथा तेषां, तथा अङ्करत्नमयनखानां तवणिजजीहाणमित्यादि नव पदानि प्राग्वत् , महता-बहुव्यापिना गम्भीरः-अतिमन्द्रो गुलुगुलायितरवो-बृंहितशब्दस्तेन मधुरेण मनोहरेण अम्बरं पूरयन्ति दिशश्च | शोभयन्तीत्यादि प्राग्वत् । अथ तृतीयवाहावाहकानाह-'चन्दविमाणस्स ण'मित्यादि, चन्द्रविमानस्य पश्चिमायां| जिगमिषितदिशः पृष्ठभागे वृषभरूपधारिणां देवानां चत्वारि देवसहस्राणि पश्चिमां बाहां परिवहन्तीत्यर्थः, श्वेतानां सुभगानामित्यादि प्राग्वत् , चलचपलं-इतस्ततो दोलायमानत्वेनास्थिरत्वादतिचपलं ककुदं-अंसकूटं तेन शालिनाशोभायमानानां तथा घनवद्-अयोधनवन्निचितानां-निर्भरभृतशरीराणामत एव सुबद्धानां-अश्लथानां लक्षणोन्नतानांप्रशस्तलक्षणान्मं तथा ईषदानतं-किञ्चिन्नम्रभावमुपागतं वृषभौष्ठ-वृषभौ-प्रधानौ लक्षणोपेतत्वेनौष्ठौ यत्र तत्, समर्थ-9 विशेषणेन विशेष्यं लभ्यत इति मुखं येषां ते तथा, ततः पूर्ववत् पदचतुष्टयकर्मधारयस्तेषां, तथा चंक्रमितं-कुटिल-9 गमनं ललितं-विलासवद्गमनं पुलितं-गतिविशेषः स चाकाशक्रमणरूपः एवंरूपा चलचपला-अत्यन्तचपला गर्विता गतिर्येषां ते तथा सन्नतपार्थानां अधोऽधःपार्थचोरवनतत्वात् तथा सङ्गतपार्थानां-देहप्रमाणोचितपार्थानां तथा| 200000000000000000000000000 Jain Education intuitoils For Private Personal Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy