________________
मण्डले वर्त्तमाने सूर्ये, ततो यत् प्रकाश्यं वस्तु यत्संस्थानं भवति तस्य छायाऽपि तथासंस्थानोपजायते, तत उक्तम् - वृत्तस्य | वृत्तया इत्यादि, एतदेवाह - 'स्वकायमनुरङ्गिन्या' स्वस्य - स्वकीयस्य छायानिबन्धनस्य वस्तुनः कायः शरीरं स्वकायस्तमनुरज्यते - अनुकारं विदधातीत्येवंशीला अनुरङ्गिनी 'द्विषग्रहे' त्यादिना' (श्रीसिद्ध ५ - २ - ४० युजरञ्जद्विप ० ) घिनञ्प्र| त्ययस्तया स्वकायमनुरङ्गिन्या छायया सूर्योऽनु-प्रतिदिवसं परावर्त्तते, एतदुक्तं भवति - आषाढस्य प्रथमादहोरात्रादारभ्य | प्रतिदिवसमन्यान्यमण्डलसङ्क्रान्त्या तथा कथंचनापि सूर्यः परावर्त्तते यथा सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवतीति शेषं सुगमं, इदं च पौरुषीप्रमाणं व्यवहारत उक्तं, निश्चयतः सार्द्धस्त्रिंशताऽहोरात्रैश्चतुरंगुला वृद्धिर्हानिर्वा वेदितव्या, तथा च निश्चयतः पौरुषी प्रमाणप्रतिपादनार्थमिमाः पूर्वाचार्य प्रसिद्धाः करणगाथा: - 'पवे पण्णरसगुणे तिहिसहिए पोरिसीइ आणयणे । छलसीअसियविभत्ते जं लद्धं तं विआनाहि ॥ १ ॥ जइ होइ विसमलद्धं दक्खिणमयणं ठविज्ज नायबं । अह हवइ समं लद्धं नायबं उत्तरं अयणं ॥ २ ॥ | अयणगए तिहिरासी चउग्गुणे पचपायभइयंमि । जं लद्धमंगुलाणि य खयवुड्डी पोरिसीए उ ॥ ३ ॥ दक्खिणबुडी दुपया अंगुलाणं तु होइ नायबा । उत्तरअयणे हाणी कायद्या चउहि पायाहिं ॥ ४ ॥ सावण बहुलपडिवया दुपया पुण पोरिसी धुवा होइ । चत्तारि अंगुलाई मासेणं वद्धए तत्तो ॥ ५ ॥ इकत्तीस इभागा तिहिए पुण अंगुलस्स चत्तारि । दक्खिणअयणे बुद्धी जाव य चत्तारि उ पयाई ॥ ६ ॥ उत्तरअयणे हाणी चउहिं पायाहिं जाव दो पाया । एवं तु पोरिसीए
Jain Education International
For Private & Personal Use Only
witter:www.jainelibrary.org