SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्री जम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥५१७॥ Jain Education I सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, एतदेवाह - तस्य मासस्य यश्चरमो दिवसस्तस्मिन् दिवसे त्रीणि पदानि अष्ट चांगुलानि पौरुषी भवतीति, अथ द्वितीयं पृच्छति - ' हेमन्ताणं भन्ते !' इत्यादि, हेमन्तकालस्य भदन्त ! द्वितीयं पौष| नामकं मासं कति नक्षत्राणि नयन्ति ?, गौतम ! चत्वारि नक्षत्राणि नयन्ति तद्यथा - मृगशिर: आर्द्रा पुनर्वसू पुष्यश्च तत्र | मृगशिरश्चतुर्दश रात्रिन्दिवान्नयति, आर्द्रा अष्टौ नय, पुनर्वसू सप्त रात्रिन्दिवान्, पुष्यः एकं रात्रिन्दिवं नयति, | तदा चतुर्विंशत्यङ्गुलपौरुष्या - चतुर्विंशत्यङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, तस्य मासस्य चरमे दिवसे रेखा - पादपर्यन्तवर्त्तिनी सीमा तत्स्थानि चत्वारि पदानि पौरुषी भवति, किमुक्तं भवति ? - परिपूर्णानि चत्वारि | पदानि पौरुषी भवति, अथ तृतीयं पृच्छति - ' हेमन्ताण' मित्यादि, एतत् सुगमं, अथ चतुर्थं पृच्छति - ' हेमन्ताणं भन्ते ! | चउत्थं' इत्यादि, सुगमं । अतीतो हेमन्तः, अथ ग्रीष्मं पृच्छति - ' गिम्हाणं भन्ते ! पढमं इत्यादि, तथा 'गिम्हाणं भन्ते ! दोचं' इत्यादि, तथा 'गिम्हाणं भन्ते । तच्चं मासं इत्यादि, तथा 'गिम्हाणं भन्ते ! चउत्थं' इत्यादि, चत्वार्यपि इमानि ग्रीष्मकाल सूत्राणि सुबोधानि, प्रायः प्राक्तनसूत्रानुसारित्वात्, नवरं तस्मिंश्चापाढे मासे प्रकाश्यवस्तुनो वृत्तस्य वृत्तया | समचतुरस्र संस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलसंस्थानस्य न्यगोधपरिमण्डलया उपलक्ष| णमेतत् शेषसंस्थानसंस्थितस्य प्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थितया, आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति, निश्चयतः पुनराषाढमासस्य चरमदिवसे तत्रापि सर्वाभ्यन्तरे For Private & Personal Use Only वक्षस्कारे माससमा पकनक्षत्रवृन्दं सू १६२ ॥५१७॥ w.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy