SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ र्थः प्राग्वद्भावनीयः, एतदेवाह-तस्य भाद्रपदमासस्य चरमे दिवसे द्वे पदे अष्ट चाङ्गुलानि पौरुषी भवति, अथ तृतीयं । पृच्छति-'वासाणं भन्ते 'त्ति, इत्यादि, वर्षाणां भदन्त ! तृतीयं मासं कति नक्षत्राणि नयन्ति?, गौतम! त्रीणि नक्षत्राणि-12 उत्तरभद्रपदा रेवती अश्विनी च, तत्रोत्तरभद्रपदा चतुर्दश रात्रिन्दिवान् नयति, रेवती पञ्चदश रात्रिन्दिवान् नयति, अश्विनी एकं रात्रिन्दिवं नयति, एवं तृतीयं मासं त्रीणि नक्षत्राणि नयन्ति, तस्मिंश्च मासे द्वादशाङ्गुलपौरुष्या-द्वाद| शाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, एतदेवाह-तस्य मासस्य चरमे दिवसे रेखा-19 पादपर्यन्तवर्तिनी सीमा तत्स्थानि त्रीणि पदानि पौरुषी भवति, किमुक्तं भवति ?-परिपूर्णानि त्रीणि पदानि पौरुषी | भवति, अथ चतुर्थ पृच्छति-वासाण'मित्यादि, वर्षाणां-वर्षाकालस्य भदन्त! चतुर्थ कार्तिकलक्षणं मासं कति नक्ष त्राणि नयन्ति?, गौतम! त्रीणि-अश्विनी भरणी कृत्तिका च, तत्राश्विनी चतुर्दशाहोरात्रान् भरणी पञ्चदशाहोरात्रान् 1| कृत्तिका एकमहोरात्रं नयति, तस्मिंश्च मासे पोडशांगुलपौरुष्या-षोडशांगुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्तते,| |भावार्थः पूर्ववत्, एतदेवाह-तस्य मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि चांगुलानि पौरुषी भवति । गतो वर्षाकालः। अथ हेमन्तकालं पृच्छति-हेमन्ताण'मित्यादि, हेमन्तानां-हेमन्तकालस्य भदन्त! प्रथमं मार्गशीर्षलक्षणं मासं | कति नक्षत्राणि नयन्ति ?, गौतम! त्रीणि न०-कृत्तिका रोहिणी मृगशिरश्च, तत्र कृत्तिका चतुर्दशाहोरात्रान् रोहिणी | ॥ पञ्चदशाहोरात्रान् मृगशिर एकमहोरात्रं नयति, तस्मिंश्च मासे विंशत्यङ्गलपौरुष्या-विंशत्यङ्गुलाधिकपौरुण्या छायया HAREucationilional श्रीजम्बू. ८७ For Private & Personal Use Only (CWww.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy