Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री जम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥५१७॥
Jain Education I
सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, एतदेवाह - तस्य मासस्य यश्चरमो दिवसस्तस्मिन् दिवसे त्रीणि पदानि अष्ट चांगुलानि पौरुषी भवतीति, अथ द्वितीयं पृच्छति - ' हेमन्ताणं भन्ते !' इत्यादि, हेमन्तकालस्य भदन्त ! द्वितीयं पौष| नामकं मासं कति नक्षत्राणि नयन्ति ?, गौतम ! चत्वारि नक्षत्राणि नयन्ति तद्यथा - मृगशिर: आर्द्रा पुनर्वसू पुष्यश्च तत्र | मृगशिरश्चतुर्दश रात्रिन्दिवान्नयति, आर्द्रा अष्टौ नय, पुनर्वसू सप्त रात्रिन्दिवान्, पुष्यः एकं रात्रिन्दिवं नयति, | तदा चतुर्विंशत्यङ्गुलपौरुष्या - चतुर्विंशत्यङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, तस्य मासस्य चरमे दिवसे रेखा - पादपर्यन्तवर्त्तिनी सीमा तत्स्थानि चत्वारि पदानि पौरुषी भवति, किमुक्तं भवति ? - परिपूर्णानि चत्वारि | पदानि पौरुषी भवति, अथ तृतीयं पृच्छति - ' हेमन्ताण' मित्यादि, एतत् सुगमं, अथ चतुर्थं पृच्छति - ' हेमन्ताणं भन्ते ! | चउत्थं' इत्यादि, सुगमं । अतीतो हेमन्तः, अथ ग्रीष्मं पृच्छति - ' गिम्हाणं भन्ते ! पढमं इत्यादि, तथा 'गिम्हाणं भन्ते ! दोचं' इत्यादि, तथा 'गिम्हाणं भन्ते । तच्चं मासं इत्यादि, तथा 'गिम्हाणं भन्ते ! चउत्थं' इत्यादि, चत्वार्यपि इमानि ग्रीष्मकाल सूत्राणि सुबोधानि, प्रायः प्राक्तनसूत्रानुसारित्वात्, नवरं तस्मिंश्चापाढे मासे प्रकाश्यवस्तुनो वृत्तस्य वृत्तया | समचतुरस्र संस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलसंस्थानस्य न्यगोधपरिमण्डलया उपलक्ष| णमेतत् शेषसंस्थानसंस्थितस्य प्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थितया, आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति, निश्चयतः पुनराषाढमासस्य चरमदिवसे तत्रापि सर्वाभ्यन्तरे
For Private & Personal Use Only
वक्षस्कारे
माससमा पकनक्षत्रवृन्दं सू १६२
॥५१७॥
w.jainelibrary.org

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332