Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 277
________________ Jain Education In वा प्राप्यन्ते ततः एकस्यां तिथौ का वृद्धिः क्षयो वा ?, राशित्रयस्थापना १८६ । २४ । १ अत्रान्त्येन राशिना एककलक्षणेन मध्यमो राशिचतुर्विंशतिरूपो गुण्यते, जातः स तावानेव, 'एकेन गुणितं तदेव भवतीति वचनात् तत आद्येन राशिना पडशीत्यधिकशतरूपेण भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद् भागो न लभ्यते ततः छेद्यच्छेदकराश्योः षट्केनापवर्त्तना जात उपरितनो राशिश्चतुष्करूपोऽधस्तन एकत्रिंशत् लब्धमेकस्यां तिथौ चत्वार एकत्रिंशद्भागाः क्षये वृद्धौ वेति चतुष्को गुणकार उक्तः एकत्रिंशद् भागहार इति, इह यल्लब्धं तान्यङ्गुलानि क्षये वृद्धौ वा | ज्ञातव्यानीत्युक्तं, तत्र कस्मिन्नयने कियत्प्रमाणध्रुवराशेरुपरि वृद्धौ कस्मिन् वा अयने किंप्रमाणध्रुवराशौ क्षये इत्येतन्निरूपणार्थमाह- 'दक्खिणवुड्डी' इत्यादि, दक्षिणायने द्विपदात्-पदद्वयस्योपरि अंगुलानां वृद्धिर्ज्ञातव्या, उत्तरायणे चतुर्भ्यः | पादेभ्यः सकाशादङ्गुलानां हानिः, तत्र युगमध्ये प्रथमे संवत्सरे दक्षिणायने यतो दिवसादारभ्य वृद्धिस्तन्निरूपयति'सावणे' त्यादि, गाथाद्वयं युगस्य प्रथमे संवत्सरे श्रावणमास बहुलपक्षे प्रतिपदि पौरुषी द्विपदा-पदद्वयप्रमाणा ध्रुवा भवति, ततस्तस्याः प्रतिपद आरभ्य प्रतितिथि क्रमेण तावद्वर्द्धते यावन्मासेन - सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन | चन्द्रमासापेक्षया एकत्रिंशत्तथिभिरित्यर्थः चत्वारि अङ्गुलानि वर्द्धन्ते, कथमेतदवसीयते ? - यथा मासेन सार्द्धत्रिंश| दहोरात्रप्रमाणेन एकत्रिंशत्तिथ्यात्मकेनेत्यत आह- 'एकतीसे ' त्यादि, यत एकस्यां तिथौ चत्वार एकत्रिंशद्भागा वर्द्धन्ते, एतच्च प्रागेव भावितं, परिपूर्णे तु दक्षिणायने वृद्धिः परिपूर्णानि चत्वारि पदानि, ततो मासेन सार्द्धत्रिंशदहोरात्रप्र For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332