________________
Jain Education In
वा प्राप्यन्ते ततः एकस्यां तिथौ का वृद्धिः क्षयो वा ?, राशित्रयस्थापना १८६ । २४ । १ अत्रान्त्येन राशिना एककलक्षणेन मध्यमो राशिचतुर्विंशतिरूपो गुण्यते, जातः स तावानेव, 'एकेन गुणितं तदेव भवतीति वचनात् तत आद्येन राशिना पडशीत्यधिकशतरूपेण भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद् भागो न लभ्यते ततः छेद्यच्छेदकराश्योः षट्केनापवर्त्तना जात उपरितनो राशिश्चतुष्करूपोऽधस्तन एकत्रिंशत् लब्धमेकस्यां तिथौ चत्वार एकत्रिंशद्भागाः क्षये वृद्धौ वेति चतुष्को गुणकार उक्तः एकत्रिंशद् भागहार इति, इह यल्लब्धं तान्यङ्गुलानि क्षये वृद्धौ वा | ज्ञातव्यानीत्युक्तं, तत्र कस्मिन्नयने कियत्प्रमाणध्रुवराशेरुपरि वृद्धौ कस्मिन् वा अयने किंप्रमाणध्रुवराशौ क्षये इत्येतन्निरूपणार्थमाह- 'दक्खिणवुड्डी' इत्यादि, दक्षिणायने द्विपदात्-पदद्वयस्योपरि अंगुलानां वृद्धिर्ज्ञातव्या, उत्तरायणे चतुर्भ्यः | पादेभ्यः सकाशादङ्गुलानां हानिः, तत्र युगमध्ये प्रथमे संवत्सरे दक्षिणायने यतो दिवसादारभ्य वृद्धिस्तन्निरूपयति'सावणे' त्यादि, गाथाद्वयं युगस्य प्रथमे संवत्सरे श्रावणमास बहुलपक्षे प्रतिपदि पौरुषी द्विपदा-पदद्वयप्रमाणा ध्रुवा भवति, ततस्तस्याः प्रतिपद आरभ्य प्रतितिथि क्रमेण तावद्वर्द्धते यावन्मासेन - सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन | चन्द्रमासापेक्षया एकत्रिंशत्तथिभिरित्यर्थः चत्वारि अङ्गुलानि वर्द्धन्ते, कथमेतदवसीयते ? - यथा मासेन सार्द्धत्रिंश| दहोरात्रप्रमाणेन एकत्रिंशत्तिथ्यात्मकेनेत्यत आह- 'एकतीसे ' त्यादि, यत एकस्यां तिथौ चत्वार एकत्रिंशद्भागा वर्द्धन्ते, एतच्च प्रागेव भावितं, परिपूर्णे तु दक्षिणायने वृद्धिः परिपूर्णानि चत्वारि पदानि, ततो मासेन सार्द्धत्रिंशदहोरात्रप्र
For Private & Personal Use Only
w.jainelibrary.org