SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ द्वीपशान्तिचन्द्री ७वक्षस्कारे माससमापकनक्षत्रवृन्दं मू. १६२ श्रीजम्बू- माणेन एकत्रिंशतिथ्यात्मकेनेत्युक्तं, तदेवमुक्ता वृद्धिः, सम्प्रति हानिमाह-'उत्तरे'त्यादि, युगस्य प्रथमे संवत्सरे माघ मासे बहुलपक्षे सप्तम्या आरभ्य चतुर्व्यः पादेभ्यः सकाशात् प्रतितिथि एकत्रिंशद्भागचतुष्टयहानिस्तावदवसेया यावदु त्तरायणपर्यन्ते द्वौ पादौ पौरुषीति । एष प्रथमसंवत्सरगतो विधिः, द्वितीये संवत्सरे श्रावणमासे बहुलपक्षे त्रयोदया वृत्तिः शीमादौ कृत्वा वृद्धिः, माघमासे शुक्लपक्षे चतुर्थीमादिं कृत्वा क्षयः, तृतीये संवत्सरे श्रावणमासे शुक्लपक्षे दशमी वृद्धे॥५१९॥18 रादिः माघमासे बहुलपक्षे प्रतिपत् क्षयस्यादिः, चतुर्थे संवत्सरे श्रावणमासे बहुलपक्षे सप्तमी वृद्धेरादिः, माघमासे बहु | लपक्षे त्रयोदशी क्षयस्यादिः, पश्चमे संवत्सरे श्रावणे मासे शुक्लपक्षे चतुर्थी वृद्धेरादिः, माघमासे शुक्लपक्षे दशमी क्षयस्यादिः, एतच्च करणगाथानुपात्तमपि पूर्वाचार्यप्रदर्शितव्याख्यानादवसितं । सम्प्रत्युपसंहारमाह-एवं तु'इत्यादि, एवमुक्तेन प्रकारेण पौरुष्यां-पौरुषीविषये वृद्धिक्षयौ यथाक्रमं दक्षिणायनेषूत्तरायणेषु वेदितव्यौ, तदेवमक्षरार्थमधिकृत्य व्याख्याताः करणगाथाः। सम्प्रत्यस्य करणस्य भावना क्रियते, कोऽपि पृच्छति-युगादितः आरभ्य पञ्चाशीतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी भवति?, तत्र चतुरशीतिर्धियते, तस्याश्चाधस्तात् पञ्चम्यां तिथौ पृष्टमिति पञ्च, चतुरशीतिश्च पञ्चदशभिर्गुण्यते जातानि द्वादश शतानि षष्ट्यधिकानि १२६० एतेषु मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते जातानि १२६५ तेषां पडशीत्यधिकेन शतेन भागो हियते लब्धाः षट्, आगतं षट् अयनान्यतिक्रान्तानि सप्तममयनं वर्त्तते, तद्गतं च शेषमेकोनपश्चाशदधिकं शतं तिष्ठति १४९ ततश्चतुर्भिर्गुण्यते जातानि पञ्च शतानि षण्णवत्यधिकानि ॥५१९॥ en Education For Private Personal Use Only OGainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy