________________
५९६ तेषामेकत्रिंशता भागहरणे लब्धाः एकोनविंशतिः, शेषास्तिष्ठन्ति सप्त, तत्र द्वादशांगुलानि पाद इत्येकोनविंशतः द्वादशभिः, पदं लब्धं, शेषाणि तिष्ठन्ति सप्तांगुलानि, षष्ठं चायनमुत्तरायणं तद् गतं सप्तमं तु दक्षिणायनं वर्तते, 18 ततः पदमेकं सप्त चांगुलानि पदद्वयप्रमाणे ध्रुवराशौ प्रक्षिप्यन्ते, जातानि त्रीणि पदानि सप्तांगुलानि, ये च सप्त एकत्रिंशद्भागाः शेषीभूता वर्तन्ते तान् यवान् कुर्मः, तत्राष्टौ यवा अंगुले इति ते सप्ताष्टभिर्गुण्यन्ते जातानि षट्पञ्चाशत् ५६ तस्या एकत्रिंशता भागे हृते लब्ध एको यवः शेषास्तिष्ठन्ति यवस्य पञ्चविंशतिरेकत्रिंशद्भागाः, आगतं पञ्चाशी-1 तितमे पर्वणि पञ्चम्यां त्रीणि पदानि सप्तांगुलानि एको यवः एकस्य च यवस्य पञ्चविंशतिरेकत्रिंशद्धागा इत्येतावती पौरुषीति, तथा अपरः कोऽपि पृच्छति-सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी?, तत्र पण्णवतिधियते, तस्याश्चाधस्तात्पञ्च, षण्णवतिश्च पञ्चदशभिर्गुण्यते जातानि चतुर्दश शतानि चत्वारिंशदधिकानि १४४० तेषां मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते जातानि चतुर्दश शतानि पञ्चचत्वारिंशदधिकानि १४४५, तेषां षडशीत्यधिकेन शतेन भागो हियते लब्धानि सप्त अयनानि शेष तिष्ठति त्रिचत्वारिंशदधिकं शतं १४३ तच्चतुर्भिर्गुण्यते जातानि पञ्च शतानि द्विसप्सत्यधिकानि ५७२ तेषामेकत्रिंशता भागो ह्रियते लब्धान्यष्टादशांगुलानि १८ तेषां मध्ये द्वादशभिरंगुलैः पदमिति लब्धमेकं पदं षटू अंगुलानि उपरि चांशा उद्धरिताश्चतुर्दश १४ ते यवानयनार्थमष्टभिर्गुण्यन्ते जातं द्वादशोत्तरं शतं 8 ११२ तस्यैकत्रिंशता भागे हृते लब्धास्त्रयो यवाः शेषास्तिष्ठन्ति यवस्य एकोनविंशतिरेकत्रिंशद्भागाः, सप्त चायना-18
Jain Education a
nal
For Private & Personal Use Only
Alw.jainelibrary.org