________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृतिः ॥४९५॥
वक्षस्कारे नक्षत्राधिकारःसू. १५५
भदन्त ! कत्ययनानि प्रज्ञप्तानि?, कियन्त ऋतवः, एवमिति सौत्रं पदं एवं सर्वत्र योजना कार्येत्यर्थाभिव्यञ्जकं, सेन कियन्तो मासाः पक्षाः अहोरात्राः कियन्तो मुहर्ता प्रज्ञप्ताः!, भगवानाह-गौतम! पञ्चसंवत्सरिके युगे दश अयनानि, प्रतिवर्षमयनद्वयसम्भवात् , एवं त्रिंशहतवः प्रत्ययनं ऋतुत्रयसम्भवात् , अत्र सूर्यसंवत्सरषष्ठांश एकषष्टिदिनमानः सूर्यऋतुरेव, न तु ऋतुसंवत्सरषष्ठांशः षष्ठिदिनप्रमाणो लौकिकर्तः, तथा च सति षष्टिासा इत्युत्तरसूत्रं विरुणद्धि, तथा पष्टिर्मासाः सौराः प्रतिऋतु मासद्वयसम्भवात् , एकविंशत्युत्तरं पक्षशतं, प्रतिमासं पक्षद्वयसम्भवात् , अष्टादश शतानि ॥ त्रिंशदधिकान्यहोरात्राणां प्रत्ययनं १८३ अहोरात्रास्ते च दशगुणाः १८३०, मुहूर्ताश्च चतुष्पञ्चाशत्सहस्राणि नव च शतानि प्रत्यहोरात्रं त्रिंशन्मुहूर्ता इति युगाहोरात्राणां १८३० सङ्ख्याङ्कानां त्रिंशता गुणने उक्तसङ्ख्यासम्भवात् ॥ उक्तं चन्द्रसूर्यादीनां गत्यादिस्वरूपम् , अथ योगादीन् दशार्थान् विवक्षुारगाथामाहजोगा १ देवय २ तारग्ग ३ गोत्त ४ संठाण ५ चंदरविजोगा ६। कुल ७ पुण्णिम अवमंसा य ८ सण्णिवाए ९ अ णेता य १० ॥१॥ कति णं भन्ते! णक्खत्ता पं०१, गो०! अट्ठावीसं णक्खत्ता पं०, तं०-अभिई १ सवणो २ धणिट्ठा ३ सयमिसया ४ पुषभद्दवया ५ उत्तरभद्दवया ६ रेवई ७ अस्सिणी ८ भरणी ९ कत्तिा १० रोहिणी ११ मिअसिर १२ अदा १३ पुणवसू १४ पूसो १५ अस्सेसा १६ मघा १७ पुवफग्गुणि ९८ उत्तरफग्गुणि १९ हत्थो २० चित्ता २१ साई २२ विसाहा २३ अणुराहा २४ जिट्ठा २५ मूलं २६ पुवासाढा २७ उत्तरासाढा २८ इति । ( सूत्र १५५)
॥४९५॥
Jain Education
10:19
For Private & Personel Use Only
Paw.jainelibrary.org