Book Title: Jain Tark Bhasha
Author(s): Yashovijay Upadhyay, 
Publisher: Motilal Banarasidas

Previous | Next

Page 22
________________ जैनतर्कभाषा। करणेन लब्धेः फले व्यवधानात् , शक्तीनां परोक्षत्वाभ्युपगमेन करण-फलज्ञानयोः परोक्षप्रत्यक्षत्वाभ्युपगमे प्राभाकरमतप्रवेशाच्च । अथ ज्ञानशक्तिरप्यात्मनि स्वाश्रये परिच्छिन्ने द्रव्यार्थतः प्रत्यक्षेति न दोष इति चेत् ; न द्रव्यद्वारा प्रत्यक्षत्वेन सुखादिवत् स्वसंविदितत्वाव्यवस्थितः, 'ज्ञानेन घटं जानामि' इति करणोल्लेखानुपपत्तेश्च । न हि कलश5 समाकलनवेलायां द्रव्यार्थतः प्रत्यक्षाणामपि कुशूलकपालादीनामुल्लेखोऽस्तीति । [२. प्रत्यक्षं लक्षायेत्वा सांव्यवहारिक-पारमार्थिकत्वाभ्यां तद्विभजनम् । ] ६३. तद् द्विभेदम्-प्रत्यक्षम् , परोक्षं च । अक्षम् इन्द्रियं प्रतिगतम् कार्यत्वेनाश्रितं प्रत्यक्षम् , अथवाऽश्नुते ज्ञानात्मना सर्वार्थान् व्यामोतीत्यौणादिकनिपातनात् अक्षो जीवः तं प्रतिगतं प्रत्यक्षम् । न चैवमवध्यादौ मत्यादौ च प्रत्यक्षव्यपदेशो न ... 10 स्यादिति वाच्यम् । यतो व्युत्पत्तिनिमित्तमेवैतत् , प्रवृत्तिनिमित्तं तु एकार्थसमवायिनाऽ. नेनोपलक्षितं स्पष्टतावत्त्वमिति । स्पष्टता चानुमानादिभ्योऽतिरेकेण विशेषप्रकाशनमित्यदोपः । अक्षेभ्योऽक्षाद्वा परतो वर्तत इति परोक्षम् , अस्पष्टं ज्ञानमित्यर्थः । ६४. प्रत्यक्षं द्विविधम्-सांव्यवहारिकम् , पारमार्थिक चेति । समीचीनो बाधारहितो व्यवहारः प्रवृत्तिनिवृत्तिलोकाभिलापलक्षणः संव्यवहारः, तत्प्रयोजनकं सांव्यव15 हारिकम् अपारमार्थिकमित्यर्थः, यथा अस्मदादिप्रत्यक्षम् । तद्धीन्द्रियानिन्द्रियव्यवहि तात्मव्यापारसम्पाद्यत्वात्परमार्थतः परोक्षगेव, धूमान् अग्निज्ञानवद् व्यवधानाविशेषात् । किञ्च, असिद्धानकान्तिकविरुद्धानुमानाभासवत् संशयविपर्ययानध्यवसायसम्भवात् , सदनुमानवत् सङ्केतस्मरणादिपूर्वकनिश्चयसम्भवाच परमार्थतः परोक्षमेवैतत् । [३. सांव्यवहारिकप्रत्यक्षस्य निरूपणम् , मतिश्रुतयोविवेकश्च । ] 20५. एतच्च द्विविधम्-इन्द्रियजम्, अनिन्द्रियजं च । तत्रेन्द्रियजं चक्षुरादि जनितम् , अनिन्द्रियजं च मनोजन्म । यद्यपीन्द्रियजज्ञानेऽपि मनो व्यापिपर्ति; तथापि तत्रेन्द्रियस्यैवासाधारणकारणत्वाददोषः । द्वयमपीदं मतिश्रुतभेदाद् द्विधा । तत्रेन्द्रियमनोनिमित्तं श्रुताननुसारि ज्ञानं मतिज्ञानम्, श्रुतानुसारि च श्रुतज्ञानम् । श्रुतानुसारित्वं च-सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य वाच्यवाचकभावेन संयोज्य 'घटो 25 घटः' इत्याधन्तर्जन्या(जैल्पा)कारग्राहित्वम् । नन्वेवमवग्रह एव मतिज्ञानं स्यान्न त्वीहादयः, तेषां शब्दोल्लेखसहितत्वेन श्रुतत्वप्रसङ्गादिति चेत् ; न श्रुतनिश्रितानामप्यवग्रहादीनां सङ्केतकाले श्रुतानुसारित्वेऽपि व्यवहारकाले तदननुसारित्वात् , अभ्यासपाटववशेन श्रुतानुसरणमन्तरेणापि विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तिदर्शनात् । अङ्गोपाङ्गादौ शब्दाद्यवग्रहणे च श्रुताननुसारित्वान्मतित्वमेव, यस्तु तत्र श्रुतानुसारी 30 प्रत्ययस्तत्र श्रुतत्वमेवेत्यवधेयम् ।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161