Book Title: Jain Tark Bhasha
Author(s): Yashovijay Upadhyay, 
Publisher: Motilal Banarasidas

Previous | Next

Page 25
________________ १. प्रमाणपरिच्छेदः । न्यग्राहि, अर्थावग्रहस्त्वितरव्यावृत्तवस्तुस्वरूपग्राहीति न सूत्रानुपएत्तिः'-इति; तदसत्; यत आलोचनं व्यञ्जनावग्रहात् पूर्व स्यात् , पश्चाद्वा, स एव वा? नाद्यः; अर्थव्यञ्जनसम्बन्ध विना तदयोगात् । न द्वितीयः; व्यञ्जनावग्रहान्त्यसमयेऽर्थावग्रहस्यैवोत्पादादालोचनानवकाशात् । न तृतीयः; व्यञ्जनावग्रहस्यैव नामान्तरकरणात् , तस्य चार्थशून्यत्वेनार्थालोचनानुपपत्तेः । किञ्च, आलोचनेनेहां विना झटित्येवार्थावग्रहः कथं 5 जन्यताम् ? युगपञ्चहावग्रहो पृथगसङ्खथेयसमयमानी कथं घटेताम् ? इति विचारणीयम् । नन्ववाहेऽपि क्षिप्रेतरादिभेदप्रदर्शनादसङ्घयसमयमानत्वम् , विशेषविषयत्वं चाविरुद्धमिति चेत् न तस्वतस्तेषामपायभेदत्वात् , कारणे कार्योपचारमाश्रित्यावग्रहमेदत्वप्रतिपादनात् , अविशेषविषये विशेषविषयत्वस्यावास्तवत्वात् । 5.११. अथवा अवग्रहो द्विविधः-नैश्चयिकः, व्यावहारिकश्च । आद्यः सामा- 10 न्यमात्रग्राही, द्वितीयश्च विशेषविषयः तदुत्तरमुत्तरोत्तरधर्माकासारूपेहाप्रवृत्तेः, अन्यथा अवग्रहं विनेहानुत्थानप्रसङ्गात् अत्रैव क्षिप्रेतरादिमेदसङ्गतिः, अत एव चोपर्युपरि ज्ञानप्रवृत्तिरूपसन्तानव्यवहार इति द्रष्टव्यम् । [७. ईहावायधारणानां क्रमशो निरूपणम्। ) ६१२. अवगृहीतविशेषाकाङ्क्षणम्-ईहा, व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्म- 15 घटनप्रवृत्तो बोध इति यावत्, यथा-'श्रोत्रपाद्यत्वादिना प्रायोऽनेन शब्देन भवितव्यम्' 'मधुरत्वादिधर्मयुक्तत्वात् शालादिना' वा इति । न चेयं संशय एव; तस्यैकत्र धर्मिणि विरुद्धनानार्थज्ञानरूपत्वात् , अस्या निश्चयाभिमुखत्वेन विलक्षणत्वात् । ६१३. ईहितस्य विशेषनिर्णयोऽवायः, यथा-'शब्द एवायम्', 'शास एवायम्' इति वा । १४. स एव दृढतमावस्थापनो धारणा । सा च त्रिविधा-अविच्युतिः, स्मृतिः, वासना च । तत्रैकार्थोपयोगसातत्यानिवृत्तिः अविच्युतिः । तस्यैवार्थोपयोगस्य कालान्तरे 'तदेव' इत्युल्लेखेन समुन्मीलनं स्मृतिः। अपायाहितः स्मृतिहेतुः संस्कारो वासना। द्वयोरवग्रहयोरषग्रहत्त्वेन च तिसृणां धारणानां धारणात्वेनोपग्रहान्न विभागव्याघातः । १५. केचित्तु-अपनयनमपायः, धरणं च धारणेति व्युत्पत्त्यर्थमात्रानुसारिणः- 25 'असद्भूतार्थविशेषव्यतिरेकावधारणमपायः, सद्भूतार्थविशेषावधारणं च धारणा'-इत्याहुः। तमः क्वचित्तदन्यव्यतिरेकपरामर्शात्, क्वचिदन्वयधर्मसमनुगमात् , क्वचिच्चोभाभ्यामपि भवतोऽपायस्य निश्चयैकरूपेण भेदाभावात् , अन्यथा स्मृतेराधिक्येन मतेः पञ्चमेदस्वप्रसङ्गात् । अथ नास्त्येव भवदभिमता धारणेति भेदचतुष्टया(य)व्याघातः; तथाहिउपयोगोपरमे का नाम धारणा ? उपयोगसातत्यलक्षणा अविच्युतिश्चापायान्नातिरिच्यते । 30 20

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161