Book Title: Jain Tark Bhasha
Author(s): Yashovijay Upadhyay, 
Publisher: Motilal Banarasidas

Previous | Next

Page 47
________________ ३. निःक्षेपपरिच्छेदः । न्तिकस्य भावस्याभ्यर्हितत्वमनुमन्यन्ते प्रवचनवृद्धवाः। एतच्च भिन्नवस्तुगतनामाद्यपेक्षयोक्तम् । अभिन्नवस्तुगतानां तु नामादीनां भावाविनाभूतत्वादेव वस्तुत्वम् , सर्वस्य वस्तुनः स्वाभिधानस्य नामरूपत्वात् , स्वाकारस्य स्थापनारूपत्वात् , कारणतायाश्च द्रव्यरूपत्वान् , कार्यापन्नस्य च स्वस्य भावरूपत्वात् । यदि च घटनाम घटधर्मो न भवेत्तदा ततस्तत्संप्रत्ययो न स्यात् , तस्य स्वापृथग्भूतसंबन्धनिमित्तकत्वादिति सर्व नामा- 5 स्मकमेष्टव्यम् । साकारं च सर्व मति-शब्द घटादीनामाकारवत्वात् , नीलाकारसंस्थानविशेषादीनामाकाराणामनुभवसिद्धत्वात् । द्रव्यात्मकं च सर्व उत्फणविफणकुण्डलिताका. रसमन्वितसर्पवत् विकाररहितस्याविर्भावतिरोभावमात्रपरिणामस्य द्रव्यस्यैव सर्वत्र सर्व दानुभवात् । भावात्मकं च सर्व परापरकार्यक्षणसन्तानात्मकस्यैव तस्यानुभवादिति चतुष्टयात्मकं जगदिति नामादिनयसमुदयवादः । [ २. निःक्षेपाणां नयेषु योजना।] ६८. अथ नामादिनिक्षेपा नयैः सह योज्यन्ते । तत्र नामादित्रयं द्रव्यास्तिकनयस्यैवाभिमतम् , पर्यायास्तिकनयस्य च भाव एव । आद्यस्य भेदौ संग्रहव्यवहारो, नैगमस्य यथाक्रमं सामान्य ग्राहिणो विशेषग्राहिणश्च अनयोरेवान्तर्भावात् । ऋजुमूत्रादयश्च चत्वारो द्वितीयस्य भेदा इत्याचार्यसिद्धसेनमतानुसारेणाभिहितं जिनभद्रग- 15 णिक्षमाश्रमणपूज्यपादैः "नामाइतियं दवट्टियस्य भावो अपज्जवणयस्स । संगहववहारा पढमगस्स सेसा उ इयरस्स ॥" [५] इत्यादिना विशेषावश्यके । स्वमते तु नमस्कारनिक्षेपविचारस्थले "भावं चिय सद्दणया सेसा इच्छन्ति सव्वणिक्खेवे" [ २८४७ ] 20 इति वचसा त्रयोऽपि शब्दनयाः शुद्धत्वाद्भावमेवेच्छन्ति ऋजुसूत्रादयस्तु चत्वारश्चतुरोऽपि निक्षेपानिच्छन्ति अविशुद्धत्वादित्युक्तम् । ऋजुसूत्रो नामभावनिक्षेपावेवेच्छतीत्यन्ये; तत्र( तन्न); ऋजुसूत्रेण द्रव्याभ्युपगमस्य सूत्राभिहितत्वात्, पृथक्त्वाभ्युपगमस्य परं निषेधात् । तथा च सूत्रम्-"उज्जुसुअस्स एगे अणुव उत्ते श्रागमओ एगं दव्वावस्सयं, पुहत्तं नेच्छइ ति" [ अनुयो० 25 सू० १४] । कथं चाय पिण्डावस्थायां सुवर्णादिद्रव्यमनाकारं भविष्यत्कुण्डलादि. पर्यायलक्षणभावहेतुत्वेनाभ्युपाच्छन् विशिष्टेन्द्राद्यभिलापहेतुभूतां साकामिन्द्रादिस्था पना नेच्छेत् ?, न हि दृष्टेऽनुपपन्नं नामेति । किञ्च, इन्द्रादिसञ्ज्ञामात्रं तदर्थरहितमिन्द्रादिशब्दवाच्यं वा नामेच्छन् अयं भावकारणत्वाविशेषात् कुतो नामस्थापने

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161