________________
३. निःक्षेपपरिच्छेदः । न्तिकस्य भावस्याभ्यर्हितत्वमनुमन्यन्ते प्रवचनवृद्धवाः। एतच्च भिन्नवस्तुगतनामाद्यपेक्षयोक्तम् । अभिन्नवस्तुगतानां तु नामादीनां भावाविनाभूतत्वादेव वस्तुत्वम् , सर्वस्य वस्तुनः स्वाभिधानस्य नामरूपत्वात् , स्वाकारस्य स्थापनारूपत्वात् , कारणतायाश्च द्रव्यरूपत्वान् , कार्यापन्नस्य च स्वस्य भावरूपत्वात् । यदि च घटनाम घटधर्मो न भवेत्तदा ततस्तत्संप्रत्ययो न स्यात् , तस्य स्वापृथग्भूतसंबन्धनिमित्तकत्वादिति सर्व नामा- 5 स्मकमेष्टव्यम् । साकारं च सर्व मति-शब्द घटादीनामाकारवत्वात् , नीलाकारसंस्थानविशेषादीनामाकाराणामनुभवसिद्धत्वात् । द्रव्यात्मकं च सर्व उत्फणविफणकुण्डलिताका. रसमन्वितसर्पवत् विकाररहितस्याविर्भावतिरोभावमात्रपरिणामस्य द्रव्यस्यैव सर्वत्र सर्व दानुभवात् । भावात्मकं च सर्व परापरकार्यक्षणसन्तानात्मकस्यैव तस्यानुभवादिति चतुष्टयात्मकं जगदिति नामादिनयसमुदयवादः ।
[ २. निःक्षेपाणां नयेषु योजना।] ६८. अथ नामादिनिक्षेपा नयैः सह योज्यन्ते । तत्र नामादित्रयं द्रव्यास्तिकनयस्यैवाभिमतम् , पर्यायास्तिकनयस्य च भाव एव । आद्यस्य भेदौ संग्रहव्यवहारो, नैगमस्य यथाक्रमं सामान्य ग्राहिणो विशेषग्राहिणश्च अनयोरेवान्तर्भावात् । ऋजुमूत्रादयश्च चत्वारो द्वितीयस्य भेदा इत्याचार्यसिद्धसेनमतानुसारेणाभिहितं जिनभद्रग- 15 णिक्षमाश्रमणपूज्यपादैः
"नामाइतियं दवट्टियस्य भावो अपज्जवणयस्स ।
संगहववहारा पढमगस्स सेसा उ इयरस्स ॥" [५] इत्यादिना विशेषावश्यके । स्वमते तु नमस्कारनिक्षेपविचारस्थले
"भावं चिय सद्दणया सेसा इच्छन्ति सव्वणिक्खेवे" [ २८४७ ] 20 इति वचसा त्रयोऽपि शब्दनयाः शुद्धत्वाद्भावमेवेच्छन्ति ऋजुसूत्रादयस्तु चत्वारश्चतुरोऽपि निक्षेपानिच्छन्ति अविशुद्धत्वादित्युक्तम् । ऋजुसूत्रो नामभावनिक्षेपावेवेच्छतीत्यन्ये; तत्र( तन्न); ऋजुसूत्रेण द्रव्याभ्युपगमस्य सूत्राभिहितत्वात्, पृथक्त्वाभ्युपगमस्य परं निषेधात् । तथा च सूत्रम्-"उज्जुसुअस्स एगे अणुव उत्ते श्रागमओ एगं दव्वावस्सयं, पुहत्तं नेच्छइ ति" [ अनुयो० 25 सू० १४] । कथं चाय पिण्डावस्थायां सुवर्णादिद्रव्यमनाकारं भविष्यत्कुण्डलादि. पर्यायलक्षणभावहेतुत्वेनाभ्युपाच्छन् विशिष्टेन्द्राद्यभिलापहेतुभूतां साकामिन्द्रादिस्था पना नेच्छेत् ?, न हि दृष्टेऽनुपपन्नं नामेति । किञ्च, इन्द्रादिसञ्ज्ञामात्रं तदर्थरहितमिन्द्रादिशब्दवाच्यं वा नामेच्छन् अयं भावकारणत्वाविशेषात् कुतो नामस्थापने