Book Title: Jain Tark Bhasha
Author(s): Yashovijay Upadhyay, 
Publisher: Motilal Banarasidas

Previous | Next

Page 24
________________ जैनतर्कभाषा । व्यञ्जनावग्रहो न भवतीति चेत्; शृणु; ग्रहणं हि मनः, न तु ब्राह्मम् । ग्राह्यवस्तुग्रहणे च व्यञ्जनावग्रहो भवतीति न मनोद्रव्यग्रहणे तदबकाशः सनिहितहृदयादिदेशग्रहवेलायामपि नैतदवकाशः, बाह्यार्थापेक्षयैव प्राप्यकारित्वाप्राप्यकारित्वव्यवस्थानात्, क्षयोपशमपाटवेन मनसः प्रथममर्थानुपलब्धिकालासम्भवाद्वा; श्रोत्रादीन्द्रियव्यापार5 कालेऽपि मनोव्यापारस्य व्यञ्जनावग्रहोत्तरमेवाम्युपगमात् 'मनुतेऽर्थान् मन्यन्तेऽर्थाः अनेनेति वा मनः' इति मनःशब्दस्यान्वर्थत्वात्, अर्थभाषणं विना भाषाया इव अर्थमननं विना मनसोऽप्रवृत्तेः । तदेवं नयनमनसोर्न व्यञ्जनावग्रह इति स्थितम् । [ ६. अर्थावग्रहस्य निरूपणम् । ] ६८. स्वरूपनामजाति क्रियागुणद्रव्यकल्पनारहितं सामान्यग्रहणम् अर्थावग्रहः । 10 कथं तर्हि 'तेन शब्द इत्यवगृहीतः" इति सूत्रार्थः, तत्र शब्दाद्युल्लेखराहित्याभावादिति 'वेत्; न; 'शब्दः' इति वक्त्रैव भणनात्, रूपरसादिविशेषव्यावृत्यनवधारणपरत्वाद्वा । यदि च 'शब्दोऽयम्' इत्यध्यवसायोऽवग्रहे भवेत् तदा शब्दोल्लेखस्यान्तर्मुहर्त्तिकत्वादर्थावग्रहस्यैकसामा(म)यिकत्वं भज्येत । स्यान्मतम् -'शब्दोऽयम्' इति सामान्यविशेषग्रहणम्प्यर्थावग्रह इष्यताम्, तदुत्तरम् -'प्रायो माधुर्यादयः शङ्खशब्दधर्मा इह, न तु शार्ङ्गधर्माः 15 खरकर्कशत्वादयः' इतीहेात्पत्तेः - इति; मैनम् ; अशब्दव्यावृत्या विशेषप्रतिभासेनास्याsपायत्वात् स्तोकग्रहणस्योत्तरोत्तर भेदापेक्षयाऽव्यवस्थितत्वात् । किञ्च 'शब्दोऽयम्' इति ज्ञान (नं) शब्दगतान्वयधर्मेषु रूपादिव्यावृत्तिपर्यालोचनरूपामीहां विनाऽनुपपन्नम्, सा च नागृहीतेऽर्थे सम्भवतीति तद्ग्रहणं अस्मदभ्युपगतार्थावग्रहकालात् प्राक् प्रतिपत्तव्यम्, स च व्यञ्जनावग्रहकालोऽर्थपरिशून्य इति यत्किञ्चिदेतत् । नन्वनन्तरम् -'क 20 एष शब्दः' इति शब्दत्वावान्तरधर्म विषय केहा निर्देशात् 'शब्दोऽयम्' इत्याकार एवावग्रहोऽभ्युपेय इति चेत्; न; 'शब्दः शब्दः' इति भाषकेणैव भणनात् अर्थावग्रहेऽव्यक्तशब्दश्रवणस्यैव सूत्रे निर्देशात्, अव्यक्तस्य च सामान्यरूपत्वादनाकारोपयोगरूपस्य चास्य तन्मात्रविषयत्वात् । यदि च व्यञ्जनावग्रह एवाव्यक्तशब्दग्रहणमिष्येत तदा सोऽप्यर्थावग्रहः स्यात्, अर्थस्य ग्रहणात् । , 25 ६९. केचित्तु - 'सङ्केतादिविकल्पविकलस्य जातमात्रस्य बालस्य सामान्यग्रहणम्, परिचितविषयस्य त्वाद्यसमय एक विशेषज्ञानमित्येतदपेक्षया 'तेन शब्द इत्यवगृहीतः' इति नानुपपन्नम् - इत्याहुः; तन्नः एवं हि व्यक्ततरस्य व्यक्तशब्दज्ञानमतिक्रम्यापि सुबहुविशेषग्रहप्रसङ्गात् । न चेष्टापत्तिः; 'न पुनर्जानाति क एष शब्दः' इति सूत्रावयवस्याविशेषेणोक्तत्वात् प्रकृष्टमतेरपि शब्दं धर्मिणमगृहीत्वोत्तरोत्तरसुबहुधर्म30 ग्रहणानुपपतेव | ६१०. अन्ये तु - 'आलोचनपूर्वकमर्थावग्रहमाचक्षते, तत्रालोचनमव्यक्तसामा "

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161