Book Title: Jain Tark Bhasha
Author(s): Yashovijay Upadhyay, 
Publisher: Motilal Banarasidas

Previous | Next

Page 28
________________ ८ जैनवर्कभाषा । " क्रमेणाल्पीभवद्विषयं हीयमानम् परिच्छिभेन्धनोपादानसन्तत्यग्निशिखावत् यथा अपनीतेन्धनानिज्वाला परिहीयते तथा इदमपीति । उत्पस्यनन्तरं निर्मूलनश्वरं प्रतिपाति, जलतरङ्गवत्, यथा जलतरङ्ग उत्पन्नमात्र एव निर्मूलं विलीयते तथा इदमपि । मा केबलप्राप्तेः आ मरणाद्वा अवतिष्ठमानम् अप्रतिपाति, वेदवत्, यथा पुरुषवेदादिरापुरुषा5 दिपर्यायं तिष्ठति तथा इदमपीति । [ १०. मनः पर्यवज्ञानस्य निरूपणम् । ] २०. मनोमात्र साक्षात्कारि मनः पर्यवज्ञानम् । मनःपर्यायानिदं साक्षात्परिच्छेसुमलम्, बाह्यानर्थान् पुनस्तदन्यथाऽनुपपश्याऽनुमानेनैव परिच्छिनतीति द्रष्टव्यम् । तद् द्विविधम् - ऋजुमति- विपुलमतिभेदात् । ऋज्वी सामान्यग्राहिणी मतिः ऋजुमतिः । 10 सामान्यशब्दोऽत्र विपुलमत्यपेक्षयाऽल्पविशेषपरः, अन्यथा सामान्यमात्रग्राहित्वे मनःपर्यायदर्शनप्रसङ्गात् । विपुला विशेषग्राहिणी मतिर्विपुलमतिः । तत्र ऋजुमत्या घटादिमात्रमनेन चिन्तितमिति ज्ञायते, विपुलमत्या तु पर्यायशतोपेतं तत् परिच्छिद्यत इति । एते च द्वे ज्ञाने विकलविषयत्वाद्विकलप्रत्यक्षे परिभाष्येते । [ ११. केवलज्ञानस्य निरूपणम् । ] 15 २१. निखिलद्रव्यपर्यायसाक्षात्कारि केवलज्ञानम् । अत एवैतत्सकलप्रत्यक्षम् । तच्चावरणक्षयस्य हेतोरैक्याद्भेदरहितम् । आवरणं चात्र कर्मैव, स्वविषयेऽप्रवृत्तिमतोऽस्मदादिज्ञानस्य सावरणत्वात्, असर्वविषयत्वे व्याप्तिज्ञानाभावप्रसङ्गात्, सावरणत्वाभावेऽस्पष्टत्वानुपपत्तेश्च । आवरणस्य च कर्मणो विरोधिना सम्यग्दर्शनादिना विनाशात् सिद्ध्यति कैवल्यम् । 20 २२. 'योगजधर्मानुगृहीतमनोजन्यमेवेदमस्तु' इति केचित् ; तन्न; धर्मानुगृहीतेनापि मनसा पश्चेन्द्रियार्थज्ञानवदस्य जनयितुमशक्यत्वात् । ६२३. 'कवलभोजिनः कैवल्यं न घटते' इति दिक्पटः; तन; आहारपर्यायसातवेदनीयोदयादिप्रभूतया कवलभुक्त्या कैवल्याविरोधात्, घातिकर्मणामेव तद्विरोधिस्वात् । दग्धरज्जुस्थानीयात्ततो न तदुत्पत्तिरिति चेत्; नन्वेवं तादृशादायुषो 25 भवोपग्रहोऽपि न स्यात् । किञ्च, औदारिकशरीरस्थितिः कथं कवलभुक्तिं विना भगवतः स्यात् । अनन्तवीर्यत्वेन तां विना तदुपपत्तौ छद्मस्थावस्थायामप्यपरिमितबलत्वश्रवणाद् भुक्त्यभावः स्यादित्यन्यत्र विस्तरः । उक्तं प्रत्यक्षम् । [ १२. परोक्षं लक्षयित्वा पञ्चधा विभज्य च स्मृतेर्निरूपणम् । ] ९२४. अथ परोक्षमुच्यते-अस्पष्टं परोक्षम् । तच्च स्मरण- प्रत्यभिज्ञान-तर्का - ऽनुमाना30 ssगममेदतः पञ्चप्रकारम् । अनुभवमात्रजन्यं ज्ञानं स्मरणम्, यथा तत् तीर्थकरबिम्बम् ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161