Book Title: Jain Tark Bhasha
Author(s): Yashovijay Upadhyay, 
Publisher: Motilal Banarasidas

Previous | Next

Page 26
________________ जैनतर्क भाषा I या च घटाद्युपयोगोपरमे सङ्कथेयमसङ्ख्येयं वा कालं वासनाऽभ्युपगम्यते, या च 'तदेव' इतिलक्षणा स्मृतिः सा मत्यंशरूपा धारणा न भवति मत्युपयोगस्य प्रागेवोपरतत्वात्, कालान्तरे जायमानोपयोगेऽप्यन्वयमुख्यां धारणायां स्मृत्यन्तर्भावादिति चेत्; न; अपायप्रवृत्यनन्तरं क्वचिदन्तर्मुहूर्त्त यावदपायधाराप्रवृत्तिदर्शनात् अविच्युतेः, पूर्वापर5 दर्शनानुसन्धानस्य 'तदेवेदम्' इति स्मृत्याख्यस्य प्रापायपरिणामस्य तदाघायकसंस्कारलक्षणाया वासनायाश्च अपायाभ्यधिकत्वात् । 9 १६. नन्वविच्युतिस्मृतिलक्षणौ ज्ञानभेदौ गृहीतग्राहित्वान्न प्रमाणम् ; संस्कारश्च किं स्मृतिज्ञानावरणक्षयोपशमो वा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पों वेति श्रयी गतिः १ तत्र - आद्यपक्षद्वयमयुक्तम् ; ज्ञानरूपत्वाभावात् तद्भेदानां चेह विचार्यत्वात् । 10 तृतीयपक्षोऽप्ययुक्त एवः सङ्ख्येयमसङ्ख्येयं वा कालं वासनाया इष्टत्वात् एतावन्तं च कालं वस्तुविकल्पायोगादिति न कापि धारणा घटत इति चेत्; न; स्पष्टस्पष्टतरस्पष्टतमभिन्नधर्मक वासनाजनकत्वेन अन्यान्यवस्तुग्राहित्वादविच्युतेः प्रागननुभूतवस्त्वेकस्वग्राहित्याच्च स्मृतेः अगृहीतग्राहित्वात् स्मृतिज्ञानावरण कर्मक्षयोपशमरूपायास्तद्विज्ञानजननशक्तिरूपायाश्च वासनायाः स्वयमज्ञानरूपत्वेऽपि कारणे कार्योपचारेण ज्ञानभेदा15 भिधानाविरोधादिति । ६१७. एते चावग्रहादयो नोत्क्रमव्यतिक्रमाभ्यां न्यूनत्वेन चोत्पद्यन्ते ज्ञेयस्येत्थमेव ज्ञानजननस्वाभाव्यात् । क्वचिदभ्यस्तेऽपायमात्रस्य दृढवासने विषये स्मृतिमात्रस्य चोपलक्षणेऽप्युत्पलपत्रशतव्यतिभेद इव सौक्ष्म्यादवग्रहादिक्रमानुपलक्षणात् । तदेवम् अर्थावग्रहादयो मनइन्द्रियैः पोढा भिद्यमाना व्यञ्जनावग्रहवतुमेदैः सहाष्टाविं 20 शतिर्मति भेदा भवन्ति । अथवा बहु-बहुविध क्षिप्रा ऽनिश्रित निश्चित-ध्रुवैः सप्रतिपक्षैर्द्वादशभिर्भेदैर्भिन्नानामेतेषां पत्रिंशदधिकानि त्रीणि शतानि भवन्ति । बह्वादयश्च भेदा विषयापेक्षाः; तथाहि - कश्चित् नानाशब्दसमूहमाकर्णितं बहुं जानाति 'एतावन्तोऽत्र शङ्खशब्दा एतावन्तश्च पटहादिशब्दाः' इति पृथग्भिन्नजातीयं क्षयोपशमविशेषात् परिच्छिनत्तीत्यर्थः । अन्यस्त्वत्पक्षयोपशमत्वात् तत्समानदेशोऽप्यबहुम् । अपरस्तु क्षयोप25 शमवैचित्र्यात् बहुविधम् एकैकस्यापि शङ्खादिशब्दस्य स्निग्धत्वादिबहुधर्मान्त्रितत्वेना प्याकलनात् । परस्त्वबहुविधम्, स्निग्धत्वादिस्वल्पधर्मान्वितत्वेनाकलनात् । अन्यस्तु क्षिप्रम्, शीघ्रमेव परिच्छेदात् । इतरस्त्वक्षिप्रम्, चिरविमर्शेनाकलनात् । परस्त्वनिश्रितम्, लिङ्गं विना स्वरूपत एव परिच्छेदात् । अपरस्तु निश्रितम्, लिङ्गनिश्रयाऽऽकलनात् । [ कश्चित्तु निश्चितम् विरुद्धधर्मानालिङ्गितत्वेनावगतेः । इतरस्त्वनिश्चितम् विरुद्धधर्मा30 ङ्किततयावगमात् । ] अन्यो ध्रुवम्, बहादिरूपेणावगतस्य सर्वदेव तथा बोधात् । अन्यस्त्वध्रुवम्, कदाचिद्वह्वादिरूपेण कदाचित्वमहादिरूपेणावगमादिति । उक्ता मतिभेदाः । "

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161