________________
जैनतर्क भाषा I
या च घटाद्युपयोगोपरमे सङ्कथेयमसङ्ख्येयं वा कालं वासनाऽभ्युपगम्यते, या च 'तदेव' इतिलक्षणा स्मृतिः सा मत्यंशरूपा धारणा न भवति मत्युपयोगस्य प्रागेवोपरतत्वात्, कालान्तरे जायमानोपयोगेऽप्यन्वयमुख्यां धारणायां स्मृत्यन्तर्भावादिति चेत्; न; अपायप्रवृत्यनन्तरं क्वचिदन्तर्मुहूर्त्त यावदपायधाराप्रवृत्तिदर्शनात् अविच्युतेः, पूर्वापर5 दर्शनानुसन्धानस्य 'तदेवेदम्' इति स्मृत्याख्यस्य प्रापायपरिणामस्य तदाघायकसंस्कारलक्षणाया वासनायाश्च अपायाभ्यधिकत्वात् ।
9
१६. नन्वविच्युतिस्मृतिलक्षणौ ज्ञानभेदौ गृहीतग्राहित्वान्न प्रमाणम् ; संस्कारश्च किं स्मृतिज्ञानावरणक्षयोपशमो वा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पों वेति श्रयी गतिः १ तत्र - आद्यपक्षद्वयमयुक्तम् ; ज्ञानरूपत्वाभावात् तद्भेदानां चेह विचार्यत्वात् । 10 तृतीयपक्षोऽप्ययुक्त एवः सङ्ख्येयमसङ्ख्येयं वा कालं वासनाया इष्टत्वात् एतावन्तं च कालं वस्तुविकल्पायोगादिति न कापि धारणा घटत इति चेत्; न; स्पष्टस्पष्टतरस्पष्टतमभिन्नधर्मक वासनाजनकत्वेन अन्यान्यवस्तुग्राहित्वादविच्युतेः प्रागननुभूतवस्त्वेकस्वग्राहित्याच्च स्मृतेः अगृहीतग्राहित्वात् स्मृतिज्ञानावरण कर्मक्षयोपशमरूपायास्तद्विज्ञानजननशक्तिरूपायाश्च वासनायाः स्वयमज्ञानरूपत्वेऽपि कारणे कार्योपचारेण ज्ञानभेदा15 भिधानाविरोधादिति ।
६१७. एते चावग्रहादयो नोत्क्रमव्यतिक्रमाभ्यां न्यूनत्वेन चोत्पद्यन्ते ज्ञेयस्येत्थमेव ज्ञानजननस्वाभाव्यात् । क्वचिदभ्यस्तेऽपायमात्रस्य दृढवासने विषये स्मृतिमात्रस्य चोपलक्षणेऽप्युत्पलपत्रशतव्यतिभेद इव सौक्ष्म्यादवग्रहादिक्रमानुपलक्षणात् । तदेवम् अर्थावग्रहादयो मनइन्द्रियैः पोढा भिद्यमाना व्यञ्जनावग्रहवतुमेदैः सहाष्टाविं 20 शतिर्मति भेदा भवन्ति । अथवा बहु-बहुविध क्षिप्रा ऽनिश्रित निश्चित-ध्रुवैः सप्रतिपक्षैर्द्वादशभिर्भेदैर्भिन्नानामेतेषां पत्रिंशदधिकानि त्रीणि शतानि भवन्ति । बह्वादयश्च भेदा विषयापेक्षाः; तथाहि - कश्चित् नानाशब्दसमूहमाकर्णितं बहुं जानाति 'एतावन्तोऽत्र शङ्खशब्दा एतावन्तश्च पटहादिशब्दाः' इति पृथग्भिन्नजातीयं क्षयोपशमविशेषात् परिच्छिनत्तीत्यर्थः । अन्यस्त्वत्पक्षयोपशमत्वात् तत्समानदेशोऽप्यबहुम् । अपरस्तु क्षयोप25 शमवैचित्र्यात् बहुविधम् एकैकस्यापि शङ्खादिशब्दस्य स्निग्धत्वादिबहुधर्मान्त्रितत्वेना
प्याकलनात् । परस्त्वबहुविधम्, स्निग्धत्वादिस्वल्पधर्मान्वितत्वेनाकलनात् । अन्यस्तु क्षिप्रम्, शीघ्रमेव परिच्छेदात् । इतरस्त्वक्षिप्रम्, चिरविमर्शेनाकलनात् । परस्त्वनिश्रितम्, लिङ्गं विना स्वरूपत एव परिच्छेदात् । अपरस्तु निश्रितम्, लिङ्गनिश्रयाऽऽकलनात् । [ कश्चित्तु निश्चितम् विरुद्धधर्मानालिङ्गितत्वेनावगतेः । इतरस्त्वनिश्चितम् विरुद्धधर्मा30 ङ्किततयावगमात् । ] अन्यो ध्रुवम्, बहादिरूपेणावगतस्य सर्वदेव तथा बोधात् । अन्यस्त्वध्रुवम्, कदाचिद्वह्वादिरूपेण कदाचित्वमहादिरूपेणावगमादिति । उक्ता मतिभेदाः ।
"