Book Title: Jain Tark Bhasha
Author(s): Yashovijay Upadhyay, 
Publisher: Motilal Banarasidas

Previous | Next

Page 32
________________ जैनतर्कभाषा। (१५. अनुमानं वेधा विभज्य स्वार्थानुमानस्य लक्षणम् । ] ६३४. साधनात्साध्यविज्ञानम्-अनुमानम् । तद् द्विविधं स्वार्थ परार्थ च । तत्र हेतुग्रहण-सम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् , यथा गृहीतधूमस्य स्मृतव्याप्तिकस्य 'पर्वतो वह्विमान्' इति ज्ञानम् । अत्र हेतु ग्रहण-सम्बन्धमरणयोः समुदितयोरेव कारण5 त्वमवसे यम् , अन्यथा विस्मृताप्रतिपन्नसम्बन्धस्यागृहीतलिङ्गकस्य च कस्यचिदनुमानोत्पादप्रसङ्गात् । [१६. हेतुस्वरूपचर्चा । ] ६३५. निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः, न तु त्रिलक्षणकादिः । तथाहित्रिलक्षण एव हेतुरिति बौद्धाः। पक्षधर्मत्वाभावेऽसिद्धत्वव्यवच्छेदस्य, सपक्ष एव सत्त्वा10 भावे च विरुद्धत्वव्युदासस्य, विपक्षेऽसत्चनियमाभावे चानैकान्तिकत्वनिषेधस्यासम्भवे नानुमित्यप्रतिरोधानुपपत्तेरिति तन्नः पक्षधर्मत्वाभावेऽपि उदेष्यति शकटं कृत्तिकोदयाद् , उपरि सविता भूमेरालोकवत्वाद्, अस्ति नभश्चन्द्रो जलचन्द्रादित्याद्यनुमानदर्शनात् । न चात्रापि 'कालाकाशादिकं भविष्यच्छकटोदयादिमत् कृत्तिकोदयादिम स्वात्' इत्येवं पक्षधर्मत्वोपपत्तिरिति वाच्यम् । अननुभूयमानधर्मिविषयत्वेनेत्थं पक्षधर्म15 त्वोपपादने जगद्धर्म्यपेक्षया काककायेन प्रासादधावल्यस्यापि साधनोपपत्तेः । ३६. ननु ययेवं पक्षधर्मताऽनुमितौ नाङ्गं तदा कथं तत्र पक्षमाननियम इति चेत् । क्वचिदन्यथाऽनुपपत्त्यवच्छेदकतया ग्रहणात् पक्षभानं यथा नभश्चन्द्रास्तित्वं विना जलचन्द्रोऽनुपपन्न इत्यत्र, क्वचिच्च हेतुग्रहणाधिकरणतया यथा पर्वतो वह्निमान् धूमवत्वादित्यत्र धूमस्य पर्वते ग्रहणाबढेरपि तत्र भानमिति । व्याप्तिग्रहवेलायां तु 20 पर्वतस्य सर्वत्रानुवृत्यभावेन न ग्रह इति । ३७. यत्तु अन्तर्व्याप्या पक्षीयसाध्यसाधनसम्बन्धग्रहात पक्षसाध्यसंसर्गमानम् , तदुक्तम्-"पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्ताप्तिः, अन्यत्र तु पहिाप्तिः" (प्र. न. ३.३८) इति; तन्नः अन्तर्व्याच्या हेतोः साध्यप्रत्यायनशक्ती सत्यां बहिर्याप्तेरुद्भावनव्यर्थत्वप्रतिपादनेन तस्याः स्वरूपप्रयुक्त(क्ताऽ)व्यभिचारलक्षण25 त्वस्य, बहिर्व्याप्तेश्च सहचारमात्रत्वस्य लाभाव , सार्वत्रिक्या व्याप्तेविषयभेदमात्रेण भेदस्य दुर्वचत्वात् । न चेदेवं तदान्ताप्तिग्रहकाल एष एव(काल एव) पक्षसाध्यसंसर्गभानादनुमानवैक(फ)ल्यापत्तिः विना पर्वतोवहिमानित्युद्देश्यप्रतीतिमिति यथातन्त्रं भाव. 1. Though this view has been accepted by a school of Nyāya, Vaisesika and Sankhya also, yet since the Buddhists laid special emphasis on this, it has been attributed to them. See Dr. Kothia, D.L., Jaina tarkasastra mem anumānavicāra, p. 191

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161