Book Title: Jain Tark Bhasha
Author(s): Yashovijay Upadhyay, 
Publisher: Motilal Banarasidas

Previous | Next

Page 42
________________ जैनतर्कभाषा पर्याययोर्मुख्यामुख्यतया विवक्षणम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यत्वेन मुख्यत्वात् , सचाख्यस्य तु विशेषणत्वेनामुख्यत्वात् । प्रवृत्तिनिवृत्तिनिवन्धनार्थक्रियाकारित्वोपलक्षितो व्यञ्जनपर्यायः। भूतभविष्यत्वसंस्पर्शरहितं वर्तमानकालावच्छिन्नं वस्तुस्वरूपं चार्थपर्यायः । वस्तु पर्यायवद्र्व्यमिति द्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, पर्या यवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यात् , वस्त्वाख्यस्य विशेषणत्वेन गौण5 त्वात् । क्षणमेकं सुखी विषयासक्तजीव इति पर्यायद्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, अत्र विषयासक्तजीवाख्यस्य धर्मिणो विशेष्यत्वेन मुख्यत्वात् , सुखलक्षणस्य तु धर्मस्य द्विशेषणत्वेनामुख्यत्वात् । न चैवं द्रव्यपयोयोमयावगाहित्वेन नेगमस्य प्रामाण्यप्रसङ्गः, प्राधान्येन तदुभयावगाहिन एव ज्ञानस्य प्रमाणत्वात् । ६३. सामान्यमात्रग्राही परामर्शः सङ्ग्रहः-स द्वेधा, परोऽपरश्च । तत्राशेषविशेषे10 वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः सङ्ग्रहः । यथा विश्वमेकं सदविशेषादिति । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः । सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभि. सन्धिना क्रियते स व्यवहारः। यथा यत् सत् तद् द्रव्यं पर्यायो वा । यद् द्रव्यं तजीवादि पडिधम् । यः पर्यायः स द्विविधा - क्रमभावी सहभावी चेत्यादि । 15६४. ऋजु वर्तमानक्षणस्थायिपर्यायमा प्राधान्यतः सुचयन्नभिप्राय अजुसूत्रः। यथा सुखविवर्तः सम्प्रत्यस्ति । अत्र हि क्षणस्थायि सुखाख्यं पर्यायमात्र प्राधान्येन प्रद यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नाlत इति । ५. कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गाः कालादयः । तत्र बभूव भवति भविष्यति सुमेरुरित्यत्रातीतादिकालभेदेन 20 सुमेरोआंदप्रतिपत्तिः, करोति क्रियते कुम्भ इत्यादौ कारकभेदेन, तटस्तटी तटमित्यादौ लिङ्गभेदेन, दाराः कलत्रमित्यादौ संख्याभेदेन, यास्यसि त्वम् , यास्यति भवानित्यादी पुरुषभेदेन, सन्तिष्ठते अवतिष्ठते इत्यादावुपसर्गभेदेन । ६. पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन् समभिरूढः । शब्दनयो, हि पर्यायभेदेऽप्यर्थामेदमभिप्रैति, समभिरूढस्तु पर्याय भेदे भिन्नाननभिमन्यते ।' 1. This suggests why synonyms are called paryāyavāci in Sanskrit. It means that no two words carry exactly the same meaning; they only indicate the different mode (paryāyas) of an object. Thus the word 'paryāya' of Jaina philosophy has been used in its technical sense, in the word 'paryayavāci'

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161