________________
जैनतर्कभाषा पर्याययोर्मुख्यामुख्यतया विवक्षणम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यत्वेन मुख्यत्वात् , सचाख्यस्य तु विशेषणत्वेनामुख्यत्वात् । प्रवृत्तिनिवृत्तिनिवन्धनार्थक्रियाकारित्वोपलक्षितो व्यञ्जनपर्यायः। भूतभविष्यत्वसंस्पर्शरहितं वर्तमानकालावच्छिन्नं वस्तुस्वरूपं चार्थपर्यायः । वस्तु पर्यायवद्र्व्यमिति द्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, पर्या
यवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यात् , वस्त्वाख्यस्य विशेषणत्वेन गौण5 त्वात् । क्षणमेकं सुखी विषयासक्तजीव इति पर्यायद्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, अत्र विषयासक्तजीवाख्यस्य धर्मिणो विशेष्यत्वेन मुख्यत्वात् , सुखलक्षणस्य तु धर्मस्य द्विशेषणत्वेनामुख्यत्वात् । न चैवं द्रव्यपयोयोमयावगाहित्वेन नेगमस्य प्रामाण्यप्रसङ्गः, प्राधान्येन तदुभयावगाहिन एव ज्ञानस्य प्रमाणत्वात् ।
६३. सामान्यमात्रग्राही परामर्शः सङ्ग्रहः-स द्वेधा, परोऽपरश्च । तत्राशेषविशेषे10 वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः सङ्ग्रहः । यथा विश्वमेकं
सदविशेषादिति । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः । सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभि. सन्धिना क्रियते स व्यवहारः। यथा यत् सत् तद् द्रव्यं पर्यायो वा । यद् द्रव्यं तजीवादि
पडिधम् । यः पर्यायः स द्विविधा - क्रमभावी सहभावी चेत्यादि । 15६४. ऋजु वर्तमानक्षणस्थायिपर्यायमा प्राधान्यतः सुचयन्नभिप्राय अजुसूत्रः। यथा सुखविवर्तः सम्प्रत्यस्ति । अत्र हि क्षणस्थायि सुखाख्यं पर्यायमात्र प्राधान्येन प्रद यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नाlत इति ।
५. कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गाः कालादयः । तत्र बभूव भवति भविष्यति सुमेरुरित्यत्रातीतादिकालभेदेन 20 सुमेरोआंदप्रतिपत्तिः, करोति क्रियते कुम्भ इत्यादौ कारकभेदेन, तटस्तटी तटमित्यादौ
लिङ्गभेदेन, दाराः कलत्रमित्यादौ संख्याभेदेन, यास्यसि त्वम् , यास्यति भवानित्यादी पुरुषभेदेन, सन्तिष्ठते अवतिष्ठते इत्यादावुपसर्गभेदेन ।
६. पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन् समभिरूढः । शब्दनयो, हि पर्यायभेदेऽप्यर्थामेदमभिप्रैति, समभिरूढस्तु पर्याय भेदे भिन्नाननभिमन्यते ।'
1. This suggests why synonyms are called paryāyavāci in Sanskrit. It means that no two words carry exactly the same meaning; they only indicate the different mode (paryāyas) of an object. Thus the word 'paryāya' of Jaina philosophy has been used in its technical sense, in the word 'paryayavāci'