________________
जैनतर्कभाषा। करणेन लब्धेः फले व्यवधानात् , शक्तीनां परोक्षत्वाभ्युपगमेन करण-फलज्ञानयोः परोक्षप्रत्यक्षत्वाभ्युपगमे प्राभाकरमतप्रवेशाच्च । अथ ज्ञानशक्तिरप्यात्मनि स्वाश्रये परिच्छिन्ने द्रव्यार्थतः प्रत्यक्षेति न दोष इति चेत् ; न द्रव्यद्वारा प्रत्यक्षत्वेन सुखादिवत् स्वसंविदितत्वाव्यवस्थितः, 'ज्ञानेन घटं जानामि' इति करणोल्लेखानुपपत्तेश्च । न हि कलश5 समाकलनवेलायां द्रव्यार्थतः प्रत्यक्षाणामपि कुशूलकपालादीनामुल्लेखोऽस्तीति ।
[२. प्रत्यक्षं लक्षायेत्वा सांव्यवहारिक-पारमार्थिकत्वाभ्यां तद्विभजनम् । ] ६३. तद् द्विभेदम्-प्रत्यक्षम् , परोक्षं च । अक्षम् इन्द्रियं प्रतिगतम् कार्यत्वेनाश्रितं प्रत्यक्षम् , अथवाऽश्नुते ज्ञानात्मना सर्वार्थान् व्यामोतीत्यौणादिकनिपातनात्
अक्षो जीवः तं प्रतिगतं प्रत्यक्षम् । न चैवमवध्यादौ मत्यादौ च प्रत्यक्षव्यपदेशो न ... 10 स्यादिति वाच्यम् । यतो व्युत्पत्तिनिमित्तमेवैतत् , प्रवृत्तिनिमित्तं तु एकार्थसमवायिनाऽ.
नेनोपलक्षितं स्पष्टतावत्त्वमिति । स्पष्टता चानुमानादिभ्योऽतिरेकेण विशेषप्रकाशनमित्यदोपः । अक्षेभ्योऽक्षाद्वा परतो वर्तत इति परोक्षम् , अस्पष्टं ज्ञानमित्यर्थः ।
६४. प्रत्यक्षं द्विविधम्-सांव्यवहारिकम् , पारमार्थिक चेति । समीचीनो बाधारहितो व्यवहारः प्रवृत्तिनिवृत्तिलोकाभिलापलक्षणः संव्यवहारः, तत्प्रयोजनकं सांव्यव15 हारिकम् अपारमार्थिकमित्यर्थः, यथा अस्मदादिप्रत्यक्षम् । तद्धीन्द्रियानिन्द्रियव्यवहि
तात्मव्यापारसम्पाद्यत्वात्परमार्थतः परोक्षगेव, धूमान् अग्निज्ञानवद् व्यवधानाविशेषात् । किञ्च, असिद्धानकान्तिकविरुद्धानुमानाभासवत् संशयविपर्ययानध्यवसायसम्भवात् , सदनुमानवत् सङ्केतस्मरणादिपूर्वकनिश्चयसम्भवाच परमार्थतः परोक्षमेवैतत् ।
[३. सांव्यवहारिकप्रत्यक्षस्य निरूपणम् , मतिश्रुतयोविवेकश्च । ] 20५. एतच्च द्विविधम्-इन्द्रियजम्, अनिन्द्रियजं च । तत्रेन्द्रियजं चक्षुरादि
जनितम् , अनिन्द्रियजं च मनोजन्म । यद्यपीन्द्रियजज्ञानेऽपि मनो व्यापिपर्ति; तथापि तत्रेन्द्रियस्यैवासाधारणकारणत्वाददोषः । द्वयमपीदं मतिश्रुतभेदाद् द्विधा । तत्रेन्द्रियमनोनिमित्तं श्रुताननुसारि ज्ञानं मतिज्ञानम्, श्रुतानुसारि च श्रुतज्ञानम् । श्रुतानुसारित्वं च-सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य वाच्यवाचकभावेन संयोज्य 'घटो 25 घटः' इत्याधन्तर्जन्या(जैल्पा)कारग्राहित्वम् । नन्वेवमवग्रह एव मतिज्ञानं स्यान्न
त्वीहादयः, तेषां शब्दोल्लेखसहितत्वेन श्रुतत्वप्रसङ्गादिति चेत् ; न श्रुतनिश्रितानामप्यवग्रहादीनां सङ्केतकाले श्रुतानुसारित्वेऽपि व्यवहारकाले तदननुसारित्वात् , अभ्यासपाटववशेन श्रुतानुसरणमन्तरेणापि विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तिदर्शनात् ।
अङ्गोपाङ्गादौ शब्दाद्यवग्रहणे च श्रुताननुसारित्वान्मतित्वमेव, यस्तु तत्र श्रुतानुसारी 30 प्रत्ययस्तत्र श्रुतत्वमेवेत्यवधेयम् ।